________________
त्रिसप्ततितमोऽध्याय: ।
मनुरुवाच । अथातः संप्रवक्ष्यामि अधोदुर्गनिवेशनम् । यथा यस्य प्रकर्त्तव्यं नृपलोक सुखावहम् ॥१॥ यस्मिन् विश्वं' भवेच्चोड़ दुर्ग दुर्गविशारदः । तदधोभागवासन्तु कुर्यात् सर्वसुखावहम् ॥२॥ पूर्व निम्नं शुभं दुर्ग सर्वेषां पुरवासिनाम् । आग्नेय्यामग्निदाहस्तु याम्ये तस्करजं भयम् ॥३॥ नैऋते निधना लोका भवन्ति तन्निवासिनः । निर्धना धनहीनास्तु अपरा मानते जनाः ॥४॥ नित्योद्वेगपरा वत्स वायव्यां सन्नते गिरौ । मुदिताः सर्वलोकाश्च दुर्गे सौम्यांशनामिते ॥५॥ ऐशान्यां धर्मनिरता धनधान्यसमाकुलाः । भवन्ति तन्निवासिनो दुर्गे निम्नगते मुने ॥६॥ पूर्वभागे नृपश्चाधो वसेन्निम्नं यदा भवेत् । आग्नेये तेजसा विप्राः सुखदा भयदास्तथा ॥७॥ याम्ये अन्त्यजना वास्या नैऋते शस्त्रकारिणः। वारुणे जलद्रव्यादि तथा शूद्रजनादयः ॥८॥ गन्धगन्धर्वनिरता वायव्ये नदते जनाः । सौम्ये हट्टजलं कार्यमैशान्यां देवतादिकम् ॥६॥ विपरीते महान् दोषः पूर्वे हट्ट नृपान्तकम् । भवते सुखदं वत्स यथा संस्थान वासिनाम् ॥१०॥ दुर्ग पुरञ्च नगरं कर्त्तव्यं मङ्गलायुतम् । न च शून्यानि वासानि धारयेद्दवतादिषु ॥११॥ न गृहं वीथिका दुर्ग पुरे शीणं विधारयेत् । राजभागं भवेत् तच्च देवतादिषु विन्यसेत् ॥१२॥ देवश्च शङ्करः कार्यः सगणो मङ्गलायुतः । तस्मिन् नित्योत्सवाः सर्वे गृहप्रासाद भूषिताः॥१३॥ वसेयुरुर्द्धगा लोका बाधा शाश्वतवजिताः । अटव्यादिषु दुर्गेषु अधोवासं न कारयेत् ॥१४॥ वसंस्तृणादिगेहेषु भयादि परिवज्जिताः । अधोभागेम मेघादीन् धारयेन्मुनिसत्तमः ॥१५॥ धारयन् महदाप्नोति भयं राजा अरातिजम् । राष्ट्र रिपुवले नैव राजा च परिपीड्यते ॥१६॥
१. निम्नम् क ग। २. विप्रबलेनैव ग।