________________
देवीपुराणम्
तस्माद् दुर्गं विवृद्धयर्थञ्चोर्ध्ववासो विधीयते ।
उर्द्धर्वं तु सुभृतावास्याः कुभृतास्तु निवासयेत् ॥१७॥
*
मत्तोन्मत्तान् प्रमत्तांश्च दुर्गे न वासयेन्नरान् । नैके कुर्य्यात् प्रभुत्वन्तु न शूद्र े न कुशीलवे ॥ १८ ॥ न च वन्धकिने कुर्य्यान्न चोऽयसि नियन्त्रिते । कुर्य्याद् दुर्गं विशीर्येत् यथा गेहं शिरोहतम् ॥ १६ ॥ ऐन्द्र ेशस्तु शिवो दुर्गे प्रधोद्धे तन्निपीडयेत् । स्वकायपीडनाद्दोषं शिवे स्वामी विनश्यति ॥ २० ॥ जलजे गिरिदुर्गे च वाधो' वासो भयावहः । अटव्ये तु विशेषेण शाश्वतं वज्र्जयेदधः ॥२१॥ अरण्येषु च दुर्गेषु ऊषरेषु विशेषतः । वाह्य वासं न कुर्वीत श्ररण्येषु तथैव च ॥ २२ ॥ अरण्ये धर्महानिः स्यादूषरेऽपि तथैव च । श्रटव्ये शत्रुजा शङ्का तस्माद्वासमधस्त्यजेत् ॥२३॥ कृषिकर्मातु चर्मादि लोहितन्तु गणायसम् । शरयन्त्रौषधादीनां संग्रहाय अधो वसेत् ॥ २४ ॥ afrateनिवासिन्यो धान्यमेया हिरण्येन । उर्ध्वे चास्या वशीकृत्य राज्ञा दुर्गंहितैषिणा ॥ २५॥ पङ्कलं खेटकं पर दुर्गाधः कर्षयेत् सदा । तन्निवासिजना सेवने कार्य्याः सवलाः सदा ॥ २६॥ एवं नक्षीयते दुर्गं धनधान्येन संभृतम् । वर्द्धते च जनः कोषो राजा च सुखमेधते ॥२७॥ यथा यथा विवर्धन्ते देवौकानि गिरौपरि । तथा तथा विवर्द्धन्ते राज्ञो धर्म्मयशश्रियः ॥ २८ ॥ यथारण्यवासिनाञ्च धर्मो भवति देहिनाम् । एवं राज्ञः श्रिया धम्र्मो दुर्गे कालवशाद् भवेत् ॥ २६॥ दुर्गाः कृत्रिमं दुर्गं किञ्चित् कालं विवक्षया । विजयार्थं प्रकर्त्तव्यं यथावत् तान्निबोध मे ॥३०॥ दुर्गाश्रयं समालक्ष्य ऊ वं दुर्गं वलं तथा । जलेन्धनञ्च धान्यञ्च यवसमायुधादिकम् ॥ तथा कुर्य्यान्महाबाहो कृत्रिमं विजयोत्तमम् ॥३१॥
२७५
काष्ठेष्टमथवा शैलं खातिकारचितं तथा । द्रुमवल्लीलतोपेतं गर्भं तोयसमन्वितम् ॥ ३२ ॥ वाह्यतोयं सुरक्ष्यं वा दुर्ग यन्त्रोपलादिभिः । कर्त्तव्यं गृहप्राकारैस्तोरणैरुपशोभितम् ॥३३॥ वीथी पूरक संयुक्तमथवा मण्डपान्वितम् । मण्डपं शतदण्डेन द्विगुणं त्रिगुणं पिवा ॥ ३४ ॥ मानादवृत्तमथ त्र्यत्रमायतेन्दु यथाशुभम् । श्रनेक गर्भगर्भाढ्य देवता मातरान्वितम् ॥३५॥
१. राज्ये ग । २. राज्ये क ग ।
३. अटव्येषु ग ।