________________
देवीपुराणम्
२७३
सप्त सप्त हता तोया पञ्चसप्तहतोत्तरा ॥१४१॥ पञ्चागुलस्य वृद्ध्या वा सदा कार्यास्तु गोपुराः ।
प्रायमान विहींनास्तु दुर्गा राज्ञो भयावहाः ॥१४२।। नित्योद्वेग भयत्रस्त तन्निवासिजनान्तरा:' । सम्पूर्णमान वास्त्वङ्ग सुखदा गोपुराः सदा ॥१४३॥
तासां नामानि वक्ष्यामि यथा वा परिकीर्तिताः ॥१४४॥ श्रिया कान्तिद्र्यु तिलक्ष्मीर्जयाभद्रापराजिता । अनन्ता शोभना दुर्गाः पूर्वेण परिकीत्तिताः ॥१४५॥
शान्ति वृद्धिर्भवा देवी काली घोरा विमोहिनी । विमला चेति याम्येन प्रतोल्यः शुभदायिकाः ॥१४६॥ रोचना मङ्गला रौद्री उग्रा चण्डा यशोवती ।
प्राप्ति र्दीप्तीति वारुण्यां वीथिकाः सर्वकामदाः ॥१४७॥ इच्छा प्रीतिः शुभा माता यशोदा धनदा उमा । शरण्या चेति सौम्येन दुर्गे गोपुरिका मता ॥१४८॥ सुस्थिता सुषमा कार्या* अविद्धा सुमनोहरा । सर्व्वलक्षणसम्पूर्णा पञ्चसप्ताथ भूमिका ॥१४॥ मूलाद्वा दशहोनानि माला द्वाराणि कल्पयेत् । शैलानि काष्ठ वेष्ठानि वज्रसौधानि कारयेत्।१५०। लेपानि सर्वगन्धानि प्रासादविभवानि च । एवं लक्षणसम्पन्नं दुर्ग यस्य महीपतेः ॥१५१॥ स पातीह भयात् सर्वान् लोकान् कोषसमन्वितान् । पद्म स्वस्तिक गोमूत्र वस्तु न्यासगतेऽपिवा ॥ मध्यामध्यगतैर्गे हैः पङ्किवृत्तगतैः पिवा । परं दुर्ग पिवा कार्य प्रासादगृहभूषितम् ॥१५३॥
___ इति श्री देवीपुराणे गोपुरद्वारलक्षणं नाम द्विसप्ततितमोऽध्यायः ॥
१. जलान्तटा: क.ग । २. सुविद्रा ग। ४. गोपुर प्रारलक्षणम् क ग।
३. माना ग।