________________
२७२
द्विसप्ततितमोऽध्यायः
तिष्ठन्ति द्वारपालाश्च नित्यं सन्निहितायुधाः । दुर्गेषु कारयेद् दुर्गा महिषासुरघातिनीम् ॥१२४॥ द्वारस्थं गजवक्त्रं वा धनदं वाथ पद्मजम् । त्रिषत्तरासु रोहिण्यां देवऋक्षेषु चाथवा ॥१२५॥ कारयेत् पुरद्वारादि सुलग्ने ग्रहज्जिते । यथा शुक्रयुते वाथ दृष्टे वा चोच्छ्रयेऽथवा ॥१२६॥
शिलान्यासे वलिः कार्य्यः प्रासादोक्तो यथाविधि । हेमं कुम्भं सरत्नं वा शाखाधः सन्निवेशयेत् ॥१२७॥ पूतना शकुनी तत्र जम्भादीन् पूजयेद् ग्रहान् । देवान् यज्ञान् ग्रहान् नागान् पूजयित्वा यथाविधि ॥१२८॥ दैवज्ञान् सूत्रधारांश्च वस्त्रहोम लगादिभिः ।
ब्राह्मणान् स्वस्तिवाच्यांश्च पशुं शान्तौ निपातयेत् ॥१२६॥ दध्यक्षतस्रजः कुम्भं भक्ष्य भोज्यं चतुर्विधम् । कारयेत् सर्वलोकादिमुत्सवं विविधं पुरे ॥१३०॥ शङ्ख भेरीनिनादेन कुर्य्याच्चोत्सवादिकम् । शाखोच्छ्रयं तथा कार्य्य छत्रं श्वेत पताकिकम् ॥१३१॥ एवं समुच्छ्रयेच्छारवाः सर्वद्वारेषु वुद्धिमान् । पूर्वांशं शोधयेच्चास्य स्वाती पुष्यसमुद्गमे ॥१३२॥ तेन परापि संसिद्धाः शेषाः सिद्धाः परा मुने । दिभ्रान्तः सुमहद्दोषो नृपस्य तन्निवासिनाम् ।१३३। उडुम्वरं समं कार्यञ्चोर्ध्व डिम्वरकं पिवा । सार्द्ध हस्तन्तु विस्तीर्णमुच्छ्रयं हस्तमानितम् ॥१३४॥ शाखां विशामहीनान्तु षोडशांशामथापिवा । त्रिशाखमपि कर्त्तव्यं मध्यद्वारं विपश्चिता ॥१३५॥ स्तम्भा वृत्ताश्च द्वात्रिंशत् षोडशाष्टाष्टमेव च । चतुरस्राथ कर्त्तव्या यथाशोभं यथा पुरम् ।१३६।। विचिन्त्यार्थ तथा शास्त्रं दुर्गद्वारं निवेशयेत् । ऋद्धिमाप्नोति येनासु भयशोक विजितम् ॥१३७॥ राजा प्रजाश्च नन्दन्ति सम्यग्द्वारे कृते मुने । सामान्य लक्षणं तासां सौत्रं सर्वत्र शस्यते ॥१३८॥ पुरदुर्गेषु कर्त्तव्यं यथावत् तन्निबोधत । नागोत्तम समारूढ सच्छत्रो विशते यथा ॥१३६।। तथा प्रतोल्यः कर्तव्या दुर्गे धर्मार्थकामदाः । अथवा आयसं शुद्धाः शृणु विस्तरतः फलम् ।।१४०॥ नचोर्द्ध पञ्चविस्ताराः पूर्वादेव विद्धिताः५ । नराक्ष्या पञ्चविस्तीर्णा यबृद्धा दक्षिणा मताः॥
१. साधयेत् ग। २. ग पुस्तके पद्यद्वयं नास्ति । ४. यथावृक्ष क ग।
३. शौक ग। ५. विजिता क ग ।