________________
देवीपुराणम्
जलशालासु चोद्य क्ताः प्रयोज्याः कुलजाः स्थिराः ।
भीता लुब्धास्तथा त्रस्ताः भृत्या व्यसनिनः शठा ॥१०७॥ द्यूतमद्यरता दुर्गे न कार्यास्त्वधिकारिणः । नित्यं मन्त्रिजनोपेतं भिषक्सांवत्सरान्वितम् ॥१०८॥ सूत्रधारगणोपेतं नानाशिल्पि समाकुलम् । ग्रहकृत्योपसर्गादि शमनेषु प्रतिष्ठितम् ॥१६॥
विषभूतोपहारांश्च गारूडिकादिकांस्तथा । द्विजान् वेदविदश्चैव कारयेत् सन्निधौ नृपः । श्वशृगालान् महादुर्गे गोपुरादिषु वर्जयेत् ॥११०॥ एवं कृते सदा विप्र पुष्कलां लभते श्रियम् । पातिगां सबलोपेतां निरावाधां सुखेन च ॥१११॥
वसिष्ठ उवाच । गोपुरस्य प्रमाणन्तु श्रोतुमिच्छामि तत्त्वतः । कोहङ्मानं प्रकर्त्तव्यं दिन ऋक्षेषु केषु च ॥११२॥
वृहस्पतिरुवाच । पूर्वादीन् कारयेद्वारान् महादुर्गेषु चोत्तमान् । द्वात्रिंशत् करकोत्सेधमद्धेनैव तु विस्तरम् ॥११३
द्वितीयं मध्यम कार्य करषोडशकोच्छ्रयम् ॥११४॥ तस्य चार्द्धन विस्तारं तृतीयं मनुमानगम् । चतुर्थं भानुमानन्तु रुद्रभानन्तु पञ्चमम् ॥११५॥ षष्ठं दशकर कार्य सप्तमं ग्रहमानितम् । वसुमानं भवेद्विप्र द्वारतश्चाष्टमं मतम् ॥११६॥
उच्छ्रायाच्चार्द्ध विस्तारान् द्वारान् कुर्वीत बुद्धिमान् ।
शैलानि दृढ कोष्ठानि नाना हेतियुतानि च ॥११७॥ ऊर्ध्वमण्डप युक्तानि वीथिकोपवनादिभिः। राजस्थान समायुक्तान् वातायन समन्वितान् ॥११८॥ मतवारणविद्याद्यान् ध्वजकैरुपशोभितान् । गज व्याल कृतापीडान पद्मपत्रमनोहरान् ॥११६॥ कारयेद्विविधान् द्वारान् यथाशोभं यथाक्रमम् । मध्यमं षोडशमानश्चार्यमानमथापि वा ॥१२०॥ द्वारं सर्वेषु दुर्गेषु प्रवदन्ति मनीषिणः । सकपाटार्गलोपेतं सकीलकमथापि वा ॥१२१॥ भुजगेन' सयन्त्राद्यान् नागवन्ध सुसञ्चितान् । प्रायसान्यष्टकीलानि यथाभागगतानि च ॥१२२॥ कारयेद् द्वारसंस्थानि द्वारे द्वारान्तराणि च । मण्डपं वीथिका चाथ यत्र शस्त्रभृतो नराः ॥१२३॥
१. भुजाकुल म।