________________
२७०
द्विसप्ततितमोऽध्यायः
कालमर्थप्रमाणश्च विद्याद्दशकुलाधिपः । मानुषाग्रं कुटुम्बस्य विभवे याति जीवके ॥८६॥ व्ययं विवाह सम्बंध दायग्राहश्च तत्वतः । नापृष्ट्वा प्रविशेत् कश्चिदायान्तं वा प्रवेशयेत् ॥१०॥ कारणं मोक्षकालञ्च' विजानीयाद् द्वयोरपि । अभ्यागतोऽन्य देशीयो नकरात्रात् परं वसेत् ।।६१॥ सुस्थवृत्तेऽन्यदा तस्य प्रवेशाभाव एव च । अन्यदेशागतं पण्यं प्रवेश्यन्तं निवासिभिः ॥१२॥ दातव्यं प्रतिपण्यञ्च तैरेव हि विनिःसृतम् । दुर्गोपयोगि यद्रव्यं धान्यं वा वल्कलादिकम् ॥३॥ तस्य कुर्य्यादनिहिं कीटाइयुपहतादृते । नानिवद्धो वसेत् कश्चिन्न लिङ्गो न च भिक्षुकः ॥१४॥
न शस्त्रिणां न चोन्मत्तो न वाग्मी न कुशीलवौ। . .
प्रवेशयेन्न चाज्ञातान् प्राक्प्रविष्टांश्च शोधयेत् ॥६५॥ प्रायुधीयैरशून्यानि सदा द्वाराणि कारयेत् । आगामिनाञ्च नार्यानामुपभोगाय कल्पयेत् ॥६६॥ विक्रयं सर्वपण्यानां बहिः सूनासुगासु च । अद्वारेण प्रविष्टस्य द्वारेणांसमयेऽपि वा ॥१७॥
द्विपादग्निनिषेधार्थ सातत्यादवघोषरणम् ॥६८ प्रक्षेप्य पटलेभ्यश्च तृणजातं धनात्यये । नोपहन्यादमध्येन न गर्मी प्यपस्करः ॥६॥ गृहकाष्ठतणैर्वापि विटमार्ग न रोधयेत् । अन्योन्यालोकि कर्तव्यं स्थानकं स्थानकान्तरात ॥१०॥ प्राकारवाहुमेकैकं चरेयुनिशि रक्षिणः । तान्येव भयशङ्कायां राज्ञि दूरगतेऽपि वा ॥१०१॥
निरन्तराणि कुर्वीत स्थानकानि प्रयत्नवान् ।
व्यामिश्रास्तेऽपि कर्त्तव्याः सैनिकः पुरवासिभिः ॥१०२॥ लेख्यका वत्सतज्जाति गोत्र संख्यादिलक्षिताः । प्राकाराधिष्ठितं पादं पादं सर्वत्रचारिणम् ॥१०॥ प्रावद्धकवचं मध्ये वलस्यार्द्ध निवेशयेत् । उष्ट्राश्वाश्वतरारुढः शीघ्रदूर प्रयायिभिः ॥१०४॥ संशोध्य परितो भूमि दुर्गस्य दशयोजनात् । यतो यतो भयाशङ्का तत्र तत्र महामतिः ॥१०॥ चरैविज्ञाय वृत्तान्तं तस्य योग्यं समाचरेत् । भाण्डागारेषु यत्नेन कोष्ठागारेषु नित्यशः ॥१०६॥
१. ज्ञपकालञ्च क ग । २. अगामिनां च साधनाम ग . सर्वाणां क ।
३. घटनांकेन वोधयेत् क ग । घटमार्ग निबोधयेत् ग ।