________________
दबीपुराणम्
२६६
देशकाल वशाद्वापि कल्पनीयौ व्ययाव्ययो । प्राकारपरिखादीनां कल्पयेद् वा पृथक् पृथक् ॥७०॥ द्रव्याणां निचयार्थश्च सग्रामान् महद्धिकान् । परिखाखननं नित्यं नित्यं वप्रविवर्द्धनम् ॥७१॥ प्राकारोपचयं नित्यं नित्यं धान्यादिसंग्रहः । शरीरस्य शरीरो वा पोतो पोतस्य वा यथा ॥७२॥
तथा दुर्गस्य कार्येषु दुर्गाचारहितो भवेत् ॥७३॥ आपदः सुलभा राज्ञां तेषां दुर्गः प्रतिक्रिया । दुर्गेषु मतिमांस्तस्मान्न प्रमाद्येत कहिचित् ॥७४॥ सुप्रभूनारिवध्यानां सर्वलोकोपकारिणाम्' । स्वाम्यादीनामनुच्छित्तावेकं दुर्ग बलं विदुः ॥७॥
कृतोऽप्यापत् प्रतीकारो मोहादेव प्रमादतः ॥७६॥ तस्कराः खण्डयन्त्येव नरं निद्रालुकामिकम् । अनर्घ्य निचयोपेतं सापसाएं सुरक्षितम् ॥७७॥ दुर्ग दुर्गगुणोपेतं यस्य राज्ञः सुसंभृतम् । अनुच्छेद्यः स शत्रूणां याति मित्राणां चापदि ॥७८॥ अदुर्गस्तु पुनः शीघ्रमभियुक्तो वलीयसा । उत्सेध-वध-वन्धानामेकमाप्नोत्यसशंयम् ॥६॥ तस्मात् सुकृतरक्षेषु दीर्घकालः सहिष्णवः । दुर्गेषु निचयाः कार्या द्विगुणा द्वादशाब्दिकाः ॥५०॥ अशेषस्नेह धान्यादि भैषज्य लवणानि च । शुष्कशाकादिक वल्लूरं क्षारगन्धस्तृणानि च ॥
अङ्गारायवसं काष्ठ सोरदारूणि वेणवः ॥८१॥ स्नायुलोहाश्म चर्माणि वल्कारण्या विषाणि च । शस्त्रभावगतं यन्त्रं विषाणान्यग्नि मुक्तयः ॥२॥ शरा धनूंषि प्रासाश्च कृतार्यः काण्डकल्पनाः । कचग्राहिण्या द्धानां वरत्रा शणरज्जवः ॥३॥ दात्रिका दूतयः कुण्डा भूषुण्डयो दृषदस्तथा । व्याघ्री शतघ्नी रोषण्यो जलयन्त्राणि मुद्गराः ॥१४॥ इत्येवमाढ्याः कार्या निचया दुर्गचिन्तकः । पुराणामिति यद्रव्यं कीटायुपहतञ्च यत् ॥५॥
एवं प्रक्षिप्य तावत् तद् व्ययं तस्यैव कारयेत् ।
तावता हि व्ययाभावे दृष्ट्वा काल सहिष्णुताम् ॥८६॥ नवानां परिवर्तन क्षिपेज्जनपदेषु वा । रक्षेत् शतकुलीमेकस्ता रक्षेच्छतिको दश ॥७॥ दशैताश्चिन्तयेदेकं चतुर्थाशं पुरस्य वा । समागमं मनुष्याणां निमित्तं स्थानमेव च ॥८॥
१. सर्वशोक प्रकारिणाम् ग । २. आत्मस्य ख।