________________
२६८
द्विसप्ततितमोऽध्यायः
दुर्गं चतुव्विधं ज्ञेयमापत्स्वाश्रयकारणम् ।
प्रौदकं पार्व्वतञ्चैव धान्वनं वनजं तथा ॥५२॥ चत्वारो मूलदुर्गे तु द्विभेदाः परिकीर्तिताः । अन्तद्व' स्थलञ्चव गुहाप्रान्तरमेव च ॥५३॥
प्रोक्तं निरुदकं स्तम्वमिरिणाख्यं तथैव च । खाञ्जनं चैव विज्ञेयं स्तम्वगहनमष्टमम् ॥ ॥५४॥ आपो द्विधा गता यत्र तदन्तद्वपमुच्यते । विज्ञेयं तु नदीदुर्गमित्युवाचोशना स्वयम् ॥५५॥ स्थूलमुन्नत देशः स्यादगाध सलिलावृतम् । जलदुर्गं द्वितीयं स्यात् तडागं सरसश्च यत् ॥ ५६ ॥ गिरीणामन्तरालं यद्ददेवद्वारं सुदुर्गमम् । गुहाख्यं पर्व्वतं दुर्गं प्रवदन्ति मनीषिणः ॥५७॥ प्रोन्तुङ्गट विच्छिन्नं सोपसारं सुसंस्कृतम् । प्रास्तरं गिरिदुर्गं स्यात् सर्व्व दुर्ग सुलक्षणम् ॥५८॥ बहिनः सलिलं दुर्गं तृणवृक्षविर्वाजितम् । ज्ञेयं निरुदकं स्तम्बं सदा दुर्ग विधायकः ॥ ५६ ॥ एतदेकञ्च विज्ञेयमिरिगं सोषरं वुधैः । स्वत्पक्षारजलोपेतं द्वितीयं सोषरं स्मृतम् ॥ ६० ॥
एतावांस्तु विशेषः स्याद्धान्वनं द्विविधं पुनः । खञ्जनाख्यं पुनर्ज्ञेयं सजलाधारकर्दमम् ॥ ६१ ॥ स्तोकवृक्ष समायुक्त स्तम्बाख्यं गहनं विदुः ||६२॥ वनदुर्गं द्वितीयन्तु प्रवदन्ति मनीषिणः । नदी पर्व्वत दुर्गेषु चतुरः पार्थिव वसेत् ॥६३॥ वर्णोत्तमहिते ते द्वे सर्व्वकाम प्रसाधके । धान्वनं वनदुर्गञ्च श्रटव्यं तत् प्रकीर्तितम् ॥ ६४ ॥ बसन्ति स्वेन विधिना यथोद्दिष्टेन ते मुने ॥६५॥
अन्येऽपि च भविष्यन्ति दुर्गाश्रयसमाश्रिताः । तेऽपि तेषु यथा योगं हितकार्य्यरताः सदा ॥६६॥ खण्डस्फोटित संस्कारं द्रव्याणां निचयांस्तथा । रक्षाञ्च ेव यथाशास्त्रं कुर्य्याद् दुर्गेष्वतन्द्रितः ॥ ६७ ॥ दुर्गोत्पत्तेश्चतुर्थाशं दुर्गेष्वेवोपयोजयेत् ॥ ६८ ॥
aण्डस्फोटित संस्कारं क्रियादौ नित्यकर्म्मणि । कर्त्तव्यं पोषरणे पादं कोषमर्द्ध प्रवेशयेत् ॥ ६६ ॥
२. तृतीयम् ग ।
१. अन्तरीय क ।
३. धान्वनं ग ।
४. नवदुर्गं प्रकीर्तितम् ग । वनदुर्ग क ।