________________
देवीपुराणम्
२६७
मध्यं चतुष्पथोपेतं न च तं पीडयेत् क्वचित् । ब्रह्मस्थानं हितं विप्र शिवस्तत्र सदा स्थितः ॥३५॥ चतुर्विशतितादयस्तु हस्तानष्टगतं परम् । अत्र मध्यं प्रशंसन्ति हृस्वोत्कृष्ट विजितम् ॥३६॥ अथ किष्कुशतान्यष्टौ प्रामुख्यं निवेशनम् । नगरार्द्धश्च विष्कम्भं खेटं ग्रामं ततोर्द्धतः ॥३७॥ नगराद् योजनं खेट खेटाद् ग्रामार्द्ध योजनम् । द्विक्रोशं परमा सीमा क्षेत्र सीमा चतुर्धनुः ॥३८॥ त्रिंशद्धनुमिमाहुः सीमामार्गो दशैव तु । विशद्धनुः ग्राममार्ग सीमामार्गो दशैवतु ॥
धनूंषि दश विस्तीर्णः श्रीमान् राजपथः कृतः ॥३६॥ नृवाजिरथनागानामसम्वाधं सुसञ्चरः। धनूंषि चैव चत्वारि शाखारथ्यास्तु निम्मिताः ॥४०॥ त्रिकरास्त्वुपरथ्यास्तु द्विकराप्युपरथ्यका । जङ्घापथश्च चतुष्पादः त्रिपदं स्याद्गृहान्तरम् ॥४१॥ व्यतीपादस्त्वर्द्धपादं प्राग्वंशः पदिकः स्मृतः । अवकरः परिवारः पादमात्र समन्ततः ॥४२॥
प्रावटकाले तु सावित्री' कर्तव्या अन्यथा नहि ।
पाये कार्यो पुरा विप्र अष्ट लोकविजिताः ॥४३॥ न विशेच्छौकरं वक्त्रं तस्मिन् पालो भवेदमी । एवं नगरेऽष्टके सिद्ध पुरेषु च महामुने ॥४४॥
ततो मेधाकृति दुर्ग कल्पयन्ति नृपोत्तमाः ॥४५॥ सहजं गिरिदुर्गश्च कैलासं शाङ्करं यथा । तथा चाापि द्रष्टव्यं बहुतोयगृहान्वितम् ॥४६॥
आख्यातं दिव्यसम्पन्नं विना दैवजलं शुभम् सार्द्ध योजनमानन्तु समं दोघमथापि वा ॥४७॥ श्रेष्ठं मध्यं भवेद्धन्वं पादांत कल्पसं भवेत् ॥
क्रोशं क्रोशार्धमं दुर्ग श्रेष्ठमाहुर्मनीषिणः ॥४८॥ इषुर्न चरते यत्र अधस्तात् प्रेरितो मुने । पथस्तेन धनुष्मता तत्र संस्कारमारभेत् ॥४६॥ चतुद्दिा स्वदेशान्तदुर्ग दैवकृतं नृपः । कारयेद् युद्धयोग्यन्तु सप्त ग्राम शतावृतम् ॥५०॥ दुर्गे कृते चतुदिक्षु मण्डलं न विशत्यरिः । वीरवासावसंरोधात् पाणिग्राहभयादपि ॥५१॥
१. श्रीमान् तताद्र तः ग । ३. सावृत्ता ग। ५. विनादरजनम् ग।
२. दिशामार्गो ग। ४. राज्ये ग।