________________
द्विसप्ततितमोऽध्यायः
यवागुल प्रदेशास्तु' हस्तकिष्कधषि च। दश त्वङ्गुलपर्वाणि प्रादेश इति संज्ञितः ॥१६॥ अङगुष्ठस्य प्रदेशिन्या व्यासः प्रादेश उच्यते । तालः स्मृतो मध्यमया गोकर्णश्चाप्यनामया ॥१७॥ कनिष्ठया विवस्तिस्तु द्वादशाङ्गुल इध्यते। अररित्नरङगुलान्युक्तः संख्यया त्वेकविंशतिः ॥१८॥ चत्वारि विंशतिश्चैव हस्तपादाङ्ग लानि तु । कष्कः स्मृतो द्विरत्निस्तु द्विचत्वारिंशदगुलैः ॥१९॥ चतुर्हस्तो धनुर्दण्डो नालिका युगमेव च । धनुः सहस्र द्वे क्रोणे गव्यूसिद्विगुणं मतम् ॥२०॥ अष्टौ धनुः सहस्राणि योजनं भवते नृगाम् । एवं मान विभागेन व्यवहारः स्थितो भुवि ॥२१॥ ऐन्द्रोत्तरप्लवे भूमौ पुरं दुर्गश्च शस्यते। चतुरस्रमथावृत्तं व्यस्र दीर्घमथापि वा ॥ ॥२२॥
पुरं यथाक्रमात् श्रेष्ठ मध्यमोत्तमकनीयसम् । समन्ताद् योजनान्यष्टावैन्द्र देवपुरं मतम् ॥२३॥ दश द्वे वैष्णवं प्राहुः षष्टिमानन्तु शाङ्करम् ।
दशब्राह्म तथा पञ्च सामान्यं सार्वभौमिकम् ॥२४॥ योजनाद्धि च मानानि पुराणि सन्निवेशयेत् । मध्ये राजगृहं कार्यं विप्राणाश्चोत्तरादितः ॥२५॥ क्रमाच्छेषाणि कार्याणि प्रकृतिवाह्यतः पुरात् । वसेयुरन्यथा दोषो वर्णशङ्करजो महान् ॥२६॥ कृत्रिमेषु च दुर्गेषु चेष्टप्राकारकल्पना । चतुः पञ्चकमानेन कल्पयेद् विधिना मुने ॥२७॥
___खातिक्यरचितं कार्य प्रणालिभिः समन्वितम् ।
चत्वार्यष्ट वाथवा त्रीणि द्वौ वा भूमि वशाद् भवेत् ॥२८॥ नवदुर्गा समेतञ्च सशिवं भुजगान्वितम् । नगरं सर्वतोभद्र कर्त्तव्यं रुचकं पिवा ॥२६॥ स्वस्तिकं मध्यमं कार्य कुमारीपुरमेव च । चतुष्पथे चतुर्युक्तं सर्वकाम सुखावहम् ॥३०॥ छिन्नकर्ण विनासञ्च दुस्थितं कुशदुर्बलम् । नगरं न प्रशंसन्ति गर्त विद्धं विभेदितम् ॥३१॥ अग्रतः स्वल्पप्रासादं छिन्नघ्राणं विदुर्बुधाः । द्विमुखं कर्णहीनन्तु कृशं मध्ये कृशं विदुः ॥३२॥ दुस्थितं निम्न याम्यन्तु नैऋतं धनदुर्व्वलम् । सौम्यं सर्वसुखाच्छादि पूरितं वारूणं वशन् ॥३३॥ याम्यमायुःप्रदं पूर्ण नगरं प्रीतिवर्द्धनम् । सर्ववस्तु संपूर्ण च सर्वारोग्य सुखप्रदम् ॥३४॥
१. अथवाङ्गुल क। ३. बसेधरण्यपथ्यदोषो ग।
२. तन्त्रोत्तर ग।