________________
द्विसप्ततितमोऽध्यायः।
वशिष्ठ उवाच । दुर्गाणाञ्च पुराणाञ्च प्रमाणायामसंस्थितिम् । यथावच्छ्रोतुमिच्छामि सर्व्वलोके सुखावहाम्' ॥१॥
बृहस्पतिरुवाच । सृष्ट्यादौ कथिता ब्रह्मन् ब्रह्मणामित तेजसा । स्वभू र्लोक विभागश्च पातालतलवासिनाम् ॥२॥ जम्बूद्वीपे यथा लोका निवसन्ति सुखार्थिनः । तथाहं सप्रवक्ष्यामि यथा शम्भुः पुराऽब्रवीत् ॥३॥ सर्वेषां सुरसङ्घानां यथा ब्रह्मा उवाच ह । पूर्व निकामचारिण्यो ह्यनिकेता अथावसन् ॥४॥ प्रजाः सर्वाः सुहृष्टात्मा भय द्वन्द्वविज्जिताः । पृथुः शासदिमां पृथ्वी धर्मावर्त्मज्यवस्थितः ॥५॥ प्रजा लोभं गता विप्र क्रामक्रोध वलेन च । कामं स्त्रीषु प्रवृत्तासु निशुम्भवशगा यदा ॥६॥ तदा सदाभवत् सिद्धिः कल्पवृक्षसमुद्भवा । देवापि मेरुमाच्छन्ना दुर्ग दानवशङ्कया ॥७॥ ततो ब्रह्मा समाधाय विश्वकर्मा महामतिः। गृहाणि चक्रिरे तासु प्रजासु सुखहे तवे ॥८॥ जलशीतातपादीनां प्रतिघाताय चक्रिरे । यथा प्रीतियथा योगं निकेतानि पृथक् पृथक् ॥६॥ मरुधन्वसु निम्नेषु पर्वतेषु नदीषु च । संप्रयान्ति च दुर्गाणि धान्यं पार्वतमौदकम् ॥१०॥ यथा कालं यथा देशं समेषु विषमेषु च । नगरं सन्निवेशानि दुर्गाणाञ्च यथाविधि ॥११॥ ततस्तु मापयामास सखेटकानि पुराणि च । ग्रामाणि च यथाभागं तथैवान्तः पुराणि च ॥१२॥ तेषामायामविष्कम्मान् सन्निवेशान्तराणि च । चक्रस्ततो यथाप्रज्ञं मित्वा मित्वात्मनोऽङ्गुलैः ॥१३॥ मानार्थानि प्रमाणानि तदा प्रभृति चक्रिरे । भानु रेणु कचं लिक्षा यूका यवक्रमाष्टधा ॥१४॥ गुरिणता ह्यङ्गुलं विप्र यवाष्टकमुदाहृतम् । देवामुलं समाख्यातं स्वं स्वं सर्वेषु चाङ्गुलम् ॥१५॥
१. हितावहा म्क ग।
२. क्रियासू ग ।