________________
एकसप्ततितमोऽध्यायः ।
मनुरुवाच । पार्थिवात् तु कृता रक्षा बहुधा रुद्रलाञ्छिता'। तद्वर्णवदसंख्याता गजकुम्भस्थमाहवे ॥१॥ परसैन्य विनाशाय पोत पुष्पादि पूजिता । सर्वकामप्रदा रक्षा प्राद्यवर्णोप लाञ्छिता ॥२॥ अष्टवर्ग कृतान्तस्था चन्द्रमध्यगताः पुनः । सितपुष्पोपचारेण ज्वरदा च श्रमापहा ॥३॥ तेजोवर्णगता रक्षा तन्मण्डल कृतानुगा । नागाविरूपसम्पूर्ण विषभूत ज्वरापहा ॥४॥ वायु वीज कृता पीडा सपताका सिताश्चिता। चालने परसैन्यस्य विधिनानेन कल्पिता ॥५॥ वटकाष्ठोत्थफलके वह्निस्तम्भेन वा मुने । रक्षेयं ताम्रफलके ज्वरशीत निवारणी ॥६॥ क्षीरचन्द्रघृतान्तस्था दाहतापशमे मता । फल होमाय वा मन्त्रा फलदा घृततर्पणा ॥७॥ पुष्पहोमा जयं दद्यादायुरारोग्य सम्पदाः । तर्पणायसकुष्ठादि सर्वकाम फलप्रदा ॥८॥ प्रादित्यस्य च वर्णन कालवणेन वा मुने। रुद्रदेवेन देवस्य तर्पणं विहितं मुने ॥६॥
चतूव्यूहसमायुक्तः पूजितो मधुसूदनः ॥१०॥ इति श्रीदेवीपुराणे रक्षात्रिमूर्ति सूर्य तत्त्व भेद पूजा नामक सप्ततितमोऽध्यायः ।
१. शकलाञ्छिता क।
२. कृता ग।