SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ २५६ सप्तषष्टितमोऽध्यायः कल्याण न तु मन्त्रेण मङ्गलेन जपेन वा । देवी शम्भु भवेनाथ स्नाप्याज्येन प्रथापिवा ॥३५॥ प्राज्यं तेजः समुद्धिष्टमाज्यं पापहरं परम् । प्राज्यं सुराणामाहारमाज्ये लोकाः प्रतिष्ठिताः ॥३६॥ भौमान्तरीक्ष दिव्यं वा यत्तु कल्मषमागतम् । सर्वं तदाज्यसंस्पर्शात् प्रणाशमुपगच्छति ॥३८॥ ततः कम्वलमुपनीय पुष्पस्नानाम्वुपूरितैः । कलशैः स्नापयेद्राजन्नार्चयोऽनेन मन्त्रेण ॥३६॥ सुरास्त्वामभिषिञ्चन्तु ये च सिद्धाः पुरातनाः । ब्रह्मा विष्णुश्च रुद्रश्च साध्याश्च समरुद्गणाः ॥४०॥ आदित्या वसवो रुद्रा अश्विनौ च भिषग् वरौ। अदितिर्देव माता च स्वाहा सिद्धिः सरस्वती ॥४१॥ कीतिलक्ष्मीर्युतिः श्रीश्च सिनीवाली कुहूस्तथा । दितिश्च सुरसा चैव विनता कद्रुरेव च ॥४२॥ देवपत्न्यश्च या प्रोक्ता देव मातर एव च । सस्त्विामभिषिञ्चन्तु शुभाश्चाप्सरसा गणाः ॥४३॥ नक्षत्राणि मुहूत्तश्चि पक्षाऽहोरात्रि सन्धयः । संवत्सरा दिनेशाश्च कलाः काष्टा क्षणा लवाः ॥ सर्वे त्वामभिषिञ्चन्तु कालस्यावयवाः शुभाः ॥४४॥ वैमानिकाः सुरगणाः मानवाः सागरैः सह । सरितश्च महाभागा नागाः किम्पुरुषास्तथा ॥४५॥ वैरवानसा महाभागा द्विजा वैहायसाश्च ये । सप्तर्षयः सदाराश्च ध्रुवस्थानानि यानि च ॥४६॥ मरीचिरत्रिः पुलहः पुलस्त्यः क्रतुरङ्गिराः । भृगुः सनत्कुमारश्च सनकोऽथ सनन्दकः ॥४७॥ सनातनश्च दक्षश्च जैगीषव्योऽथ नन्दनः । एकतश्च द्वितश्चैव त्रितो. जावालि-कश्यपौ ॥ दुरयो' दुविनीतश्च कण्वः कात्यायनस्तथा ॥४॥ मार्कण्डेयो दीर्घतपा शुनः शेपो विदूरथः । द्वौत्नः संवर्तकश्चैव च्यवनोऽत्रि पराशरः ॥४६॥ द्वैपायनो यवक्रीतो देवरातः सहानुजः । एते चान्ये च मुनयो वेदव्रत परायणाः ॥५०॥ सशिष्यास्तेऽभिषिञ्चन्तु सदाराश्च तपोधनाः । पर्वतास्तरवो वन्याः पुण्यान्यायतनानि च ॥५१॥ प्रजापति दितिश्चैव गावो विश्वस्य मातरः । वाहनानि च दिव्यानि सर्व्वलोकाश्चराचराः ॥५२॥ १. दुर्वासा ग।
SR No.002465
Book TitleDevi Puranam
Original Sutra AuthorN/A
AuthorPushpendra Sharma
PublisherLalbahadur Shastri Kendriya Sanskrit Vidyapitham
Publication Year1976
Total Pages588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, L000, & L015
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy