________________
देवीपुराणम्
२५७
अग्नय पितरस्तारा जीभूताः खं दिशो जलम् । एते चान्ये च वहवः पुण्यः सङ्कीर्तनाशुभः ।।
तोयस्त्वामभिषिञ्चन्तु सर्वोत्पातनिवर्हरणैः ॥५३॥ इत्येवं शुभदैरैतर्मन्त्रैदिव्यस्तथापरैः । शैवै नारायणैः रौद्र ब्रह्मशक समुद्भवः ।
आपोहिष्ठा हिरण्येति शम्भवेति तथैव च ॥५४॥ सर्वमङ्गल मङ्गल्यैर्वस्त्र कार्पासिकं ध्रियात् । शङ्ख वेणुरवस्तूय्यै राचान्तो मङ्गलनुपः ॥५५॥
ततः सम्पूजयेदेवान् गुरुन् विप्रान् ध्वजायुधान् ।
छत्रं बायं गजानश्वान् परिजप्तानि धारयेत् ॥५६॥ देवेन विजयेनोढ्यमलङ्काराणि पार्थिवः । द्वितीयायां ततो वेद्यां गत्वाहूय हुताशनम् ॥५७॥ देवानां वदनं स्थानं निमित्तानि तु लक्षयेत् । स्वाहा रुद्राय चेन्द्राय विष्गवे ब्रह्मणे शिवे ॥८॥ प्राजापत्ये कुमाराय विघ्नहाय विनायके । सूर्याय ग्रहराजाय वराहाय त्रिविक्रमे ॥५६॥ मातृणां वरदे मात्रे चामुण्डायै स्वधेति च । नागराजायानन्ताय ततो राजा समाहरेत् ॥६०॥ क्रमेण संस्थिते चर्मण्युपविशेन्नराधिपः । वृषस्य वृषदंशस्य रुरोश्च पृषतस्य च ॥६१॥ तेषामुपरि सिंहस्य व्याघ्रस्य च ततः परम् । उपविष्टे पुन:मं तैर्मन्त्रः सघृतस्तिलैः ॥६२॥
कृत्वा शेषं समाप्ति स प्राञ्जलिः संस्थितो वदेत् ।
यान्तु देव गणाः सर्वे पूजामादाय पार्थिवीम् ॥६३॥ सिद्धि दत्त्वा सुविपुलां पुनरागमनाय वै । नृपतिरतो देवज्ञान् पुरोधाश्च द्विजान→येत् ॥६४॥
- गोभूहिरण्य रत्नश्च अन्यानपि क्रमागतान् ॥६५॥ स्थल देवान् पुरोदेवीन् नदीकल चतुष्पथान् । अभयञ्च जने देयं गङ्गोत्सङ्ग समारचेत् ॥६६॥ अलङ कृत्य यथान्यायं सितौ तौ वस्तुभूषितौ। देवदेवीति विज्ञाय वन्धनस्थांश्च मोचयेत् ॥६७॥ नमो विचित्राङ्ग सदुष्टान् पुनस्तान् कृतागसान् । विभवानुरूप भावश्च पुरे पूजां समारभेत् ।६८॥ सिंहासनं समास्थाय चतुस्के घृतद्योतितः । दीपैः रजतपत्रस्थैः तोयार्घमृतवंदितः ॥६६॥ रोचनादिकं पश्येद् दर्पणं मंगलानि च । एवं पुष्ये अवाप्नोति कर्ता राज्यायुः सम्पदः ॥७०॥ विनापि वर्धे फलदं पुष्टं पुष्याभिषेचने । राष्ट्रोत्पातोऽयसेषु धूमकेतोश्च दर्शनम् ॥७१॥ ग्रहावमदनं चैव पुष्यस्नानं समाचरेत् ॥ नास्ति लोके स उत्पातो यो ह्यनेन न शाम्यति ॥७२॥