________________
देवीपुराणम्
समपादं ग्रहाख्यं वा हेम पत्र विभूषितम् । वज्र ेन्द्र नील रुद्राख्यं महार्घमणि चच्चतम् ॥१५॥ चतुष्पादोऽथ वा कार्य्यस्त्रिमण्डल समोऽपिवा । व्याघ्रचित्रकपट्टेवा उपधानानि कारयेत् ॥१६॥ अन्यैर्वा रञ्जितैश्च मैदुतलक पूरिताम् । शय्यां दैर्ध्यार्द्ध विस्तोरगी चतुर्हस्तां सुलक्षणाम् ॥१७॥ वितस्ताधिकमिच्छन्ति नृपेश गुरूविद्यया । पद्मपादाथ पादा वा गर्जासिंह पदाथवा ॥ १८ ॥ दन्तिदन्तविचित्रा वा हेमरत्न विभूषिता । शुभ पट्टोत्तरा वा धात्रा करिण्या हस्तमुच्छ्रिताः । १६ ॥ किन्नराद्याः प्रकर्त्तव्याः सर्व्वशोभा समन्विताः । शुभवन्धसमोपेताः सकुम्भा अथ सग्रहाः ॥२०॥ शिवोपलसमं मानं काय्यं वं शिववारणम् । पद्मस्वस्तिक सङ्घट्ट उत्पलं विहगान्वितम् ॥ २१॥ यत्र वल्लीकृतापीड हेमदन्तं सुसञ्चितम् । वज्रपद्ममहापद्म रागवैदूर्य्यं भूषितम् ॥ २२॥ गजकुम्भ समाकारमर्द्ध चन्द्रकृतापि वा । सहस्र किन्नरी मानं सप्तमञ्च शतैः पिवा ॥२३॥ नवेशं सर्व्वलोकानां त्रिशतं द्विगतं पिवा । तूणौ शय्या समा कार्य्या मृदुकोष्ठक पूरकैः ॥ २४ ॥ उपधानं विचित्रन्तु कनकं मृदु वतुलम् । वृत्तशृङ्गाटकाकारान् श्रवणाख्याय कण्डुकान् ॥२५॥
भ्याकृति का वृत्तपादं सुशोभनम् । वितस्तिरुच्छ्रिता कार्य्या शिवपादा मृत्तिका ॥२६॥ एवं समस्तं प्रत्यग्रं कृत्वा शय्यासनादिकम् । वस्त्रालङ्कार शोभाढ्यमभिषेकं समारभेत् ॥२७॥ ततो धूपस्य वैश्यस्य चर्म्म रोहितमक्षतम् । सिंहस्याथ तृतीयस्य व्याघ्रस्य च ततः परम् ॥२८॥ चत्वारि तानि चम्र्माणि तस्या वेद्या उपस्तरेत् । शुभे मुहूर्ते संप्राप्ते पुष्ययुक्ते निशाकरे ॥२६॥ हेमं वा राजतं ताम्रं क्षीरवृक्षमयं पिवा । भद्रासनं प्रकर्त्तव्यं सार्द्धहस्त समुच्छ्रितम् ॥३०॥ सपादहस्तमानन्तु राज्ञा मण्डलिकान्तरा । सुसंहृष्टमना राजा हैमन्ते दीपं संविशेत् ॥३१॥ देवज्ञामात्य कञ्चुकिवन्द पौर सुहद्वृतः । द्विज वेदध्वनि गीत पटु वाद्य रवान्वितः ॥३२॥ मृदङ्ग शङ्ख तूय्यैश्च शुभ शब्देर्हता शुभम् । प्रतक्षौमानि निवसं नृपं कम्वलछादितम् ॥३३॥ कलशैलि पुष्पाद्यैः सर्पिपूर्णैश्चस्नापयेत् । प्रष्ट षोडश-विशष्टशतमष्टाधिकं पिवा । समाख्यातमधिकानामुत्तरोत्तरम् ॥३४॥
कलशानां
१. संग्रहा ग । ३. वृषस्य ग ।
२. शिवोपया सममानं कार्य वै शिवधारणम् ग ।
२५५