________________
सप्तषष्टितमोऽध्यायः ।
ब्रह्मोवाच । रत्नानि बीज पुष्पाणि फलानि कलशे क्षिपेत् । पुष्पमाल्याश्च वस्त्रान्ते सितचन्दनाँच्चताः ॥१॥ वज्रमौक्तिक वैदूर्य्यमहापद्मेन्द्रस्फाटिकैः । सर्वधातु फल बिल्वनारङ्गोडुम्वरैस्तथा ॥२॥ वीजपूरक जम्बीर आम्रपाम्रात'दाडिमैः। यवशालिनीवारैश्च गोधूमसित सर्षपैः ॥३॥ कुङ्कुमागुरुकर्पूरमदरोचनचन्दनम् । मांसेला कुष्ठ कर्पूर यत्र चण्डाम्बराजनम् ॥४॥ जाती पत्रकणगन्ध पृक्कागौरी सपर्णकम् । वचारात्रि समञ्जिष्ठा तुरूष्क मङ्गलाष्टकम् ॥५॥ दूळ मोहनिमृङ्गाङ्क शतमूली शतावरी । वला नागवला देवी सहदेवा गजध्वरा ॥६॥ पूर्णकोशा सिता पाठा गुजा सुरसिका लताम् । व्यापकं गजदन्तु शतपुष्पा पुनर्नवा ॥७॥ ब्राह्मी देवी शिवा रुद्रा सर्वगन्धानि काञ्चनम् । समाहृत्य शुभान्येतान् कलशेषु निधापयेत् ॥८॥ कल्याणं विजयं धूपौ चन्द्रोदये समङ्गलम् । सर्वरत्नमलंकारं रोचनाख्यं तु पट्टकम ॥६॥ बुध्या द्वयंगुलमंगुल्या षड्विंशांगुलयावधी । नोत्तमं चतुरस्र वा पद्मचन्द्रिकमिकम् ॥१०॥ वामे सपद्ममत्स्ये भागा स्वस्तिकविनायकैः । श्री श्री वृक्षवराहेम प्रमोदेवी शुभान्वितम् ॥११॥ सर्वरत्नमलङ्कारं पट्ट कार्य द्विहस्तकम् । हस्तविस्तार उच्छ्रायं दशाङ्ग ल्यं सुशोभनम् ॥१२॥ स्नानाख्यं सार्द्धहस्तन्तु पट्ट वृत्तासनान्वितम् । शय्याख्यं द्विगुणं दाद्धनुर्मानं सपीठकम् ॥१३॥ गज सिहं कृताटोपं हेमरत्नविभूषितम् । सिंहाख्यं सार्द्ध विस्तारा कुण्डासनमथापि वा ॥१४॥
१. साम्र साम्रात ग।
२. मात्स्येनाष्ट कर्पूर पत्र पंडा सुराजलम् ग । ३. निर्मासां वुदशेले यज्ञजुदेवनं फलम् ख क पुस्तके नास्ति । ४. भगांगं ग। ५. सहदेवीमजाक्षमा ग। ६. ख पुस्तके न सन्ति ।