SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ देवीपुराणम् २५३ सर्वरत्नौषधी गन्ध-फल-पुष्प-समन्विताः। ग्रहदोषे प्रयोक्तव्याः कल्याणे मङ्गले तथा ॥३४॥ ग्रहान् धारयते यस्मान्मातरा विविधास्तथा । दुरितांश्च महाघोरस्तेन ते धारकाः स्मृताः ॥३५॥ एकैकान्तु कलां मूर्तो क्षित्यादीनां यथाक्रमम् । संहृत्य संस्थिता यस्मात् तेन ते कलशाः स्मृताः ॥३६॥ हैमराजत ताम्रा वा मृण्मया लक्षणान्विताः । पञ्चाङ्गुल वैपुल्यमुतसेधः षोडशाङ्गुलान् ॥३७॥ कलशानां प्रमाणन्तु मुखमष्टाङ्गुलं भवेत् । अष्टमूत्तिस्थितो योऽसौ स शिवः पद्मसंस्थितः ॥३८॥ मूर्तयोऽष्टौ गणास्तस्य कर्णिकायां शिवः स्थितः । ये गणास्ते दला नागे ये नागा कलशाश्च ते ॥३६॥ कलशाश्च ग्रहाः प्रोक्ता लोकपाला दिशश्च ते । एतैः सर्वमिदं व्याप्तमाब्रह्म भुवनं जगत् ॥४०॥ दुराधर्षे महासत्त्वैः सर्वपाप विशोधकैः ॥४१॥ इति श्री देवीपुराणे कलशोत्पत्ति निवेशाधिदेवलक्षण कीर्तनं नाम षट्षष्टितमोऽध्यायः । १. वाचकाः ग। २. सप्तमूत्ति ग। १. इत्याचे कलशोत्पत्ति निवेषनाधि, देवलक्षणम् ग ।
SR No.002465
Book TitleDevi Puranam
Original Sutra AuthorN/A
AuthorPushpendra Sharma
PublisherLalbahadur Shastri Kendriya Sanskrit Vidyapitham
Publication Year1976
Total Pages588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, L000, & L015
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy