________________
षट्षष्टितमोऽध्यायः
श्रष्टमस्त्विन्द्रियोपेतो नवमो विजयः स्मृतः । नवैव कलशाः ख्याता श्रधिदेवं निबोधत ॥ १५॥ नवमो यः समाख्यातो विजयो नाम नामतः । शिवस्तत्र स्थितः साक्षात् सर्व्वपापहरः शुभः ॥१६॥ स तु पञ्चमुखः ख्यातो लोके सर्व्वार्थसाधकः । पञ्चब्रह्मात्मको यस्मात् तेन पञ्चमुखः स्मृतः ॥१७॥
पश्चिमे तुमुखे सद्यो वामदेवस्तथोत्तरे । पूर्व्वे तत्पुरुषं विद्यादघोरञ्चापि दक्षिणे ॥ १८ ॥ ईशानः पञ्चमो मध्ये सर्व्वेषामुपरि स्थितः । एते पञ्चमुखा वत्स पापघ्ना ग्रहनाशनाः ॥ १६ ॥ सद्योजातं भवेच्छुक्लं वामदेवन्तु पीतकम् । रक्तस्तत् पुरुषो ज्ञेयो अघोरः कृष्ण एव च ॥ २० ॥ ईशानः पश्चिमस्तेषां सर्व्ववर्ण समन्वितः । कामदः कामरूपी स्याद् ज्ञानाधार : शिवात्मकः ॥ २१॥ क्षितीन्द्रो ज्येष्ठकलशो द्वितीयो जलसम्भवः । तृतीय पवनश्चैव चतुर्थस्तु हुताशनः ॥ २२ ॥ पञ्चमो यजमानस्तु षष्ठश्चाकाश सम्भवः । सोमस्तु सप्तमः प्रोक्त प्रादित्यश्च तथाष्टमः ॥ २३ ॥ एते चोत्पादिता देव्या शिवेनाधिष्ठिताः पुरा । इन्द्रस्य मूर्त्तयश्चाष्टौ सूर्य्यान्तास्तनवः शिवः ॥ २४ ॥ क्षितीन्द्रः पूर्व्वतो न्यास्यः पश्चिमे जल सम्भवः ।
वायव्ये वायवो न्यास्य आग्नेये अग्निसम्भवः ॥२५॥
२५२
सौम्यमुत्तरतो योज्यं सौरं दक्षिणतो न्यसेत् । न्यस्यैवं कलशानान्तु पूर्व्वरूपं विचिन्तयेत् । कलशानां मुखे ब्रह्मा ग्रीवायां विष्णुरेवहि ' ॥२६॥
मध्ये मातृगणाः सर्व्वे सेन्द्रा देवाश्च पन्नगाः । कुक्षौ तु सागरास्तेषां सप्तद्वीपा च मेदिनी ॥२७॥ श्रिया चैव तयोमा च गन्धर्व्वा ऋषयस्तथा । पञ्चभूतास्तथा धारास्तेषामधरतः स्थिताः ॥ २८ ॥ पूर्णाः पूतेन तोयेन सिद्धास्त्वेकान्ततोज्ज्वला । सरित्सरः सखातेन तडागेन जलेन वा ॥ २६ ॥ वापीकूपौ च दिव्येन सामुद्रण सुखावहाः । सर्व्वमङ्गल मङ्गल्याः सर्व्वकिल्विषनाशकाः ॥३०॥ अभिषेके सदा ग्राह्याः कलशा ईदृशाः शुभाः । यात्राविवाह काले वा प्रतिष्ठायज्ञकर्म्मणि ॥३१॥ योजनीया विशेषेण सव्र्व्वकाम प्रसाधकाः । मृतापत्या तु या नारी या च वन्ध्या प्रकीर्तिता ॥ ३२॥ मूढगर्भा गर्भा च दुर्भगा व्याधिपीडिता । एतासान्तु सदा कार्य्यं स्नापनं पुष्पमण्डले ॥ ३३॥
१. कृष्ण एव ग ।