________________
षट्षष्टितमोऽध्यायः।
ब्रह्मोवाच । उत्पत्ति लक्षणं मानं कथयामि महामुने । बाधकः कलशश्चैव येन लोके प्रकीर्तितः ॥१॥ अमृते मथ्यमाने तु सर्वदेवैः सदानवैः । मन्थानं मन्दरं कृत्वा नेत्रं कृत्वा तु वासुकिम् ॥२॥ उत्पन्नममृतं तत्र महावीर्य पराक्रमम् । तस्यायं धारणार्थाय कलशः परिकीर्तितः ॥३॥ कलां कलां गृहीत्वा वै देवानां विश्वकर्मणाम् । निर्मितोऽयं सुरैर्यस्मात् कलशस्तेन उच्यते ॥४॥ कलशस्य मुखे ब्रह्मा ग्रीवायान्तु महेश्वरः । मूले तु संस्थितो विष्णुमध्ये मातृगणाः स्थिताः ॥५॥ शेषास्तु देवताः सर्वा वेष्टयन्ति चतुर्दिशम् । कुक्षौ तु सागराः सप्त सप्तद्वीपास्तु संश्रिताः ॥६॥ नक्षत्राणि ग्रहाः सर्वे तथैव कुलपर्वताः । हिमवान् हेमकूटश्च निषधो मेरुरेव च ॥७॥ रोहितो माल्यवन्तश्च सूर्यकान्तिश्च पर्वताः । गङ्गा सरस्वती सिन्धु सुभगा यमुना नदी ॥८॥ एरावती शतहृदा तथा वैतरणी नदी । गोदावरी नर्मदा च मही नाम महानदी ॥६॥ कुरुक्षेत्रं प्रयागञ्च एकहंसं पृथूदकम् । अमरेश्वरं पुण्डरीकं गङ्गासागरमेव च ॥१०॥ पृथिव्यां यानि तीर्थानि कलशे निवसन्ति ते । ग्रहशान्तिश्च पुष्टिश्च प्रीति गायत्रिरेव च ॥११॥ ऋग्वेदोऽथ यजुर्वेदः सामवेदस्तथैव च । अथर्ववेदसहिताः सर्वे कलशे संस्थिताः ॥१२॥ न चैव कलशाः पुण्याः शम्भूमूत्तिसमुद्भवा। गोत्योपगोभ्यो मरुतः समुदश्च तथापरे ॥१३॥ मनोहरः खलुभद्रः पञ्चमः परिकीर्तितः । विरजस्तनुदूषश्च षष्ठसप्तमकावुभौ ॥१४॥
१. वाचक ग।
२. संस्थानां ग। ४. अश्वमेधम् ख ।
३. एकहस्तम् ग । ५. तलइषष्ट ग।