________________
२५०
पञ्चषष्टितमोऽध्यायः
तृतीये मण्डलारण्ये भेदिन्यामुपकल्पिते । नानारत्नाकराकोणे भूयो देवान् समालिखेत् ॥८७॥
पुरोहितो यथास्थानं नागान् यक्षान् पितृन् सुरान् ।।
गन्धव्वाप्सरसश्चैव मुनीन् सिद्धान् निधापयेत् ॥८॥ ग्रहाश्च ग्रहनक्षत्रः सरुद्राश्चैव मातरः । स्कन्दं विष्णु विशाखञ्च लोकपालान् सुरस्त्रियः ॥८६॥ वर्ण के विविधैः कृत्वा कृत्यैर्गन्धगुणान्वितैः । यथा सम्पूजयेद्विद्वान् गन्धमाल्यानुलेपनः ॥१०॥ भयेरनेकैविविधैः फलमूलामिषैस्तथा । पानस्तु विविधैह यैः सुराक्षीरासवादिभिः ॥१॥ विशेषाद्विहिता पूजा ग्रहयज्ञे मया पुरा । मातराणां सुराणाञ्च साप्यत्रैवोपकल्प्यते ॥१२॥ पिशाचान् दानवान् रक्षान् मांसमद्यः प्रपूजयेत् । अभ्यञ्जनाञ्जन तिलमासेन पितरस्तथा ॥३॥ मुनयः सामयजुभिः ऋग्गन्धैधूपमाल्यकैः । त्रिमधुरेण च नागानशेषैर्वर्ण कैस्तथा ॥१४॥ धूपाज्याहुतिदानश्च देवान् रत्नदक्षिणः। गन्धर्वाप्सरसो गन्धर्माल्यैश्च सुमनैस्तथा ॥६५॥ शेषास्तु सार्व्वणिके वलिगन्धैश्च पूजयेत् । प्रतिसराणि पताकाश्च वस्त्राण्याभरगनि च ॥६६।। सर्वेषां च प्रदेयानि सयज्ञोपवीतानि च । दक्षिणे पश्चिमे चैव वायव्यां मण्डलस्य वा ॥१७॥ ग्रहयज्ञविधानेन होमं मातृमखोदितम् । कृत्वा द्रव्यरिमर्वत्स यथोक्तैर्लक्षणान्वितैः ॥८॥ लाजाक्षत घृतं क्षौद्र दधि क्षीरं सरीसृपाः । सिद्धार्थाः स मनोगन्ध धूपाश्च ससितोत्कटाः ॥६६॥.
गोरोचना तिला दर्भाः स्वर्तुजानि फलानि च । घृत पायस पूर्णाश्च रागवान् विनिवेदयेत् ॥१००॥ पश्चिमायान्तु वेद्याया पूजेयं स्नानिकी भवेत् ।
कलशान् सुदृढान् कुर्य्याल्लक्षणेन वदामि ते ॥१०१॥ इति श्री देवीपुराणे पुष्पाभिषेके चिन्ता नाम पञ्चषष्टितमोऽध्यायः ।
२. क्षीरं तु सर्षदा ग ।
१. घूपाध्याहुतिपानैश्च ग । ३. प्राद्ये पुष्पाभिषेक मण्डला चिता ग ।