________________
देवीपुराणम्
कृशायाञ्चार्थहानिः स्याद् विच्छिन्ने मरणं ध्रुवम् । विप्रयोगो भवेत् तस्य इष्टं द्रव्यसुतस्य वा । अविदित्वा लिखेद्यस्य मण्डलन्तु यथेप्सया ॥७०॥
२४६
सर्व्वदोषानवाप्नोति ये दोषाः पूर्व्वभाषिताः । चतुरस्रं चतुर्द्वारं लिखेन्मण्डलमुत्तमम् ॥७१॥ मण्डलस्य प्रमाणन पद्मं द्वारान् समालिखेत् । हस्तोर्नोन्नत कर्त्तव्यं पद्मं विप्र कदाचन ॥ ७२ ॥ नाधिकं चतुरूर्द्धन्तु लिखितव्यं विजानता । प्रतापायु स्त्रियो धर्मी राज्यं श्रीरूपशान्तता ॥७३॥ योगाप्तिरर्थलाभश्च पूर्व्वद्वारे तु मण्डले । सिद्धिर्मेधा यशः सौख्यमारोग्यं जनवल्लभम् ||७४ || सर्व्वकामार्थ सिद्धिश्च उत्तरे द्वारमण्डले । पुत्रमायुर्वलञ्चैव सौभाग्यं रिपुमर्दनम् ॥७५॥ यज्ञकर्माभिवृद्धिश्च पश्चिमद्वारि मंडले । तस्य मध्ये पुनः पद्ममष्टपत्रं सकणकम् ॥७६॥ चतुवितस्तिकं विप्रे राजन्ये त्रिवितस्तिकम् । पद्मस्यैवानुपूर्वेण नालं तदनुपूर्वशः ' ॥७७॥ Parent farerfect नालन्तु परिकल्पयेत् । सप्तपाताल सौनालं भुवनान्ताः प्रकीर्तिता ॥ ७८ ॥ ईदृशं कल्पितं पद्मं देवदेवेन शम्भुना । ध्वजतोरण संयुक्तं पताकाभिरलङ्कृतम् ॥७६॥ का तु भवेन्मेरूवजैर्ग्रहगणाः स्थिताः । केशरास्तु भवेन्नयः कण्टके पर्व्वता स्थिताः ॥ ८० ॥ अष्टौ दला दिशः प्रोक्ता एकः पद्मः प्रतिष्ठितः । सप्तपाताल भूर्लोके नालन्तु परिकीर्तितम् ॥८१॥
भूर्लोकस्तु दला ज्ञेयो दिगात्मा शून्यगोचरा । सर्वलोकः कणिकाख्यातास्त्रैलोक्यं पद्मसंज्ञितम् । कणिकायां न्यसेद्देवं पूजाकाले महेश्वरम् ॥ ८२ ॥
मातरा ग्रहनागाश्च यक्षा रक्षा दिवौकशः । वसवो मुनिलोकेशाः सरूद्रा भुवनाधिपाः ॥ ८३ ॥ लवाः काष्ठाः क्षणा यामा रात्र्यहाः ससिताः सिताः । पक्षा मासा ऋतु मार्गो समा युगयुगान्तराः ॥८४॥
कल्पान्ताश्च महाकल्पाः पद्मे चैवं समालिखेत् । प्रथमे
मण्डले देवं शिवं विद्येश संयुतम् ॥ गणनायक संयुक्तं द्वितीयावरणे यजेत् ॥ ८५॥ सग्रहं भास्करं प्राच्यांमैशान्यान्तु पिनाकिनम् । सौम्यायं केशवं रक्षे पश्चिमस्यां पितामहम् ॥ ८६ ॥
१. ख पुस्तके नास्ति ।