________________
पञ्चषष्टितमोऽध्यायः
दृष्ट्वाशुभान् जपः कार्य्यो धातुजाः 'न फल प्रदाः । वातपित्त कफोत्थेषु यानाग्नितरणादिका
॥५३॥
ग्रीष्म शरद्वसन्तेषु प्रकोपा न फलप्रदाः । श्रुतानुकीर्त्तने दृष्टमनुभूतानुगर्हिताः ॥ ५३ ॥ न चेष्टा यदि वा दृष्टाः प्रदोषे प्रथमे तथा । मध्ये मध्यफलाः सर्व्वे चान्ते शीघ्रफलप्रदाः ॥५४॥ गोविसर्गे च ये दृष्टास्ते तथा परिकीत्तिताः ।
दृष्ट्वा स्वप्नान् शुभान् यागं कुर्य्यानिष्ठान्न कारयेत् ॥ ५५॥
स्नानं देवार्चनं होमं जपं शान्ति समारभेत् । कृत्वा शुभं भवेत् सर्व्वं ततो मण्डल मालिखेत् ॥५६॥ चतुर्हस्तं समारभ्य यावद्धस्तशतं भवेत् । मण्डलं तत्र कर्त्तव्यमत ऊर्द्ध न कारयेत् ॥५७॥ विमलं विजयं भद्रं विमानं शुभदं शिवम् । वर्द्धमानञ्च देवञ्च मंदाक्षं कामदायकम् ॥ ५८ ॥ रूचकं स्वस्तिकाख्यञ्च द्विदशञ्चेति मण्डलाः ।
सित्यादि- हरिताश्च रजाः कार्य्याः सुशोभनाः ॥५६॥
शालि षष्टिक कौसुम्भरजनी हरिपत्रजाः । मरिण विद्रुम रागाश्च भस्मना अभिमन्त्रिता ॥ ६० ॥ सित सर्षप धूपाद्या रजः कृत्वा तु पातयेत् । श्रस्त्र राजं न्यसेन्मन्त्री सम्भवेऽतिपदं पि वा ॥ ६१ ॥ समोत्थानं शुभं कृत्वा गोमयेनोपलेपितम् । स चन्दन गुरू कर्पूर क्षोदधूपाधिवासितम् ॥ ६२ ॥ भूभागं सुमितं सिद्धं पूर्व्वपश्चिमचोत्तरम् । साम्यं स्वस्तिक मत्स्याद्यैः सूत्रैर्वाण्डजपत्र जेः ॥ ६३ ॥ पद्म पत्राष्टकं मध्ये द्विगुण ं त्रिगुणं पिवा । द्वाराणि समसूत्राणि कणिका केशरोज्ज्वलम् ॥ ६४॥ पद्मं तथावशेषानि स्वस्तिकान्युत्पलानि च । सव्यावलम्बहस्तस्तु रजःपातं समाचरेत् ॥ ६५॥ मध्यमानामिकाङ्ग ुष्ठैरुपविष्ठा यथेप्सया । श्रधोमुखाङ्ग ुलिं कृत्वा पातयेत् तु विचक्षणः । समारेखा तु कर्त्तव्या विच्छिन्ना पुञ्जवजिता ॥६६॥
श्रङ्गुष्ठपर्व्वं वैपुल्या समा कार्य्या विजानता । संसक्तं विषमं स्थूलं विच्छिन्नकृषरावृतम् ॥६७॥ पर्य्यन्त सहितं ह्रस्वमालिखेद्रवा कदाचन । संसक्ते कलहं विद्याद्वक्ररेरवे तु विग्रहम् ||६८|| अतिस्थूले भवेद्रव्याधिनित्यं पींडा विमिश्रिते । विन्दुभिर्भयमाप्नोति शत्रुपक्षान्न संशयः ॥ ६६ ॥
१. धातुमान् ग ।
३. उपचेष्टा सुखेप्सया क ग ।
२. दश द्वा इति मंडल ग ।
४. बहुरेर्ख तु क ग ।