________________
२४७
देवीपुराणम् श्रीमती मृगेक्षणा वा परपुष्ट प्रभाषिणी' । गृहे यत्र मुदा प्रास्ते तत्र कुर्य्याच्च वा मुने ॥३४॥ पूर्वोदक् प्लवने भूमौ प्रदक्षिणपथे जने । श्वाविन्मधि केविवरैः कर्कटिवासज्जिते ॥३५॥ वर्णा गन्ध रसोपेताः घना स्निग्धा समाः शुभा । दृष्टा सा वीजरोहाद्यवहुशः सुपरीक्षिता ॥३६॥
गत्वा तां शुभ मुहूर्ते कौवेामधिवासयेत् ॥३७॥ वलि पुष्पोपहारञ्च मन्त्रयुक्तं निवेदयेत् । आगच्छन्तु सुराः सर्वे यत्र पूजाभिलाषिणः ॥३८॥
दिशो द्विजा नगाश्चैव ये चाप्यन्येऽश भागिनः ।
आवाह येवं ततः सन्नेिवं ब्रूयात् पुरोहितः ॥३६॥ श्वः पूजां प्राप्य यातारो दत्त्वा शान्ति महीभुजे ।
कृत्वा पूजां ततस्तासां रात्रौ तस्मिन् परावसेत् ॥४०॥ स्वपनाः शुभाश्च गोवत्सदधि देवाङ्गदर्शनम् । पृष्टा दूक्षितं रत्न फल शैला जयावहाः ॥४१॥ छत्र चामरशङ्खाब्ज सित वासादिदर्शनम् । लाभो वा सर्वकामानां पूरणाय प्रकीर्तिताः ॥४२॥ फल पुष्पलता वृक्षाः क्षीरिणः शुभदा मताः । तेषामारोहण श्रेष्ठं प्रासादे वृषभादिषु ॥४३॥ चन्द्रार्क ग्रहणं शस्तं पर्वतारोहणं शुभम् । निगर्वन्धनं स्वप्ने विद्विषश्च जयावह ॥४४॥ परिवर्त गिरेः कुर्य्याच्छत्रुर्वाचावगृहति । वेष्टयेद् यस्तु प्रासादं स्वान्तेस्तस्य जयो भवेत् ॥४५॥
मृतरोदनमागम्यागमनञ्च शुभावहम् ॥४६॥ स्वप्ने तु कूपपङ्कषु गर्ताद्वा तरण शुभम् । नदोषु तरण शस्तं समुद्रोत्तरण तथा ॥४७॥ निज्जित्य शत्रुसैनञ्च जयं प्राप्नोति मानवः । कटकादि-अलङ्काराः पुत्रराज्य सुखप्रदाः ॥४८॥ सुहृद जन वैपञ्ची लाभाः स्त्रीधन दायका । रूधिरन्तु पिवेद्यस्तु तरते वा यदि क्वचित् ॥४६॥ मासादि भक्षरणे लाभे लभते चेहितं फलम् । हास्यनृत्य न चोत्साह पाठनाः कलिकारकाः ॥५०॥ याम्ययानाङ्गना कृष्णानयनं भयमृत्युदम् । पङ्कजा गोधगामित्वं कूपमनुप्रवेशनम् ॥५१॥ उत्तरे भयदं स्वप्ने रवतमाल्याम्बरागमः । स्वराष्ट्र कपिकाकोलू वराहाहि निर्ग्रन्थयः ॥५२॥
१. परपुष्पप्रदायिनी ख । ३. तस्यां वृती वसेत ग।
२. मूषिकाविवरै क ग। ४. दुर्वादिदर्शनाम् ग ।