SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ पञ्चषष्टितमोऽध्यायः यत्नः कार्य्यः सदा वत्स मूलं शाखादिकं भवेत् । मूले विनष्टे नश्यन्ति शाखायाः फलसञ्चयाः ॥ १६ ॥ ततोऽयं मूलरक्षाणां यतितव्यं महामुने । धर्मार्थ काममोक्षाणां स हि हेतुः प्रपद्यते ॥ १७॥ ब्रह्मणा या पुरा शान्ति महेन्द्रार्थं वृहस्पतिः । व्याख्याता कीर्त्तयिष्यामि तां ते शौनक शृणुष्व ताम् ॥ १८ ॥ पुष्ये स्नानं तथा' पुण्यं सर्व्वपापप्रणाशनम् । उत्पात शमनं दिव्यं यत्र कार्य्यावधारय ॥ १६ ॥ वल्मीक तुषकेशास्थि कटं कण्टक वर्जिते । स्निग्धश्लेष्माति दौर्गन्धि विगताक्षे महीतले ॥ २० ॥ कङ्क कापोत गृधोलूकाकादि परिवज्जिते । सुशुभे चर्मकाशोके वकुलाभ्राभ्रशाद्वले ॥२१॥ तरुणा तरु वेल्लिप्रतते निरुपहतदलान्विते । सुमधुरे वृक्षप्राये फल पल्लव शोभिते ॥ २२ ॥ पक्षिशव गणाकीर्णे कृकवाकूप शोभिते । जीवं जीवकहारीत शतपत्र शुकाकुले ॥२३॥ चकोरं कुरु वा वत्स चक्रवाकोपशोभिते । शिखि पारावतश्रीक कोक कोकिल नादिते ॥ २४ ॥ मधु पुष्प सुरापान मत्त षट्करर्णाकुले । यागं कुर्य्याद्वनोद्देशे क्षेत्रारण्येऽथवा शुभे ॥ २५ ॥ हिमाद्रौ जुहुयात् यावत् सह्य विन्ध्याचलेऽपि वा । नदीनां पुलिने वाथ सङ्गमे वा मनोरमे ॥ २६ ॥ सिकता - पङ्क - उत्कीर्णे जलपक्षि नखक्षते । प्रोत्प्लुत हंसच्छत्राने गीते कारण्ड सारसः ॥२७॥ सहस्राक्ष समारम्ये सरे इन्दीवरेक्षरणे । विकसत् कमल वदना कुले कलहंस भाषिणी ॥ २८ ॥ प्रोदभिन्नकुड्मल कुचा नलिनी पत्र निवासिनी । गोरोमन्थजशकृत् खुराः फेनरवाकुले ॥२६॥ सुत सम्पूर्ण हुङ्कार गोवत्सवरवल्लिते । समुद्रतीरे कुर्याच्च यत्रायाताः सुतागताः ६ ॥३०॥ रत्नसम्पूर्ण कोषाश्च निवसन्ति निराकुलाः । स्वनील निबुलाकीर्णे उपान्ते वा खगान्विते ॥३१॥ सिंहकोल गजानाञ्च यत्र एकत्र भूभृदा । विभीयो यत्र ग्रासते खगा मृगसमन्विताः ॥३२॥ तत्र कुर्य्याद् सदा स्नानं यत्र मातृ गृहं शुभम् । काञ्ची कलाथनूपुरजघनोरूभरालसा ॥३३॥ २४६ १. महापुण्यम् । ३. सुपूते कग । ५. विलासिनी क ग । ७. यत्र वा अत्र मातंगे गमना प्रमदालसाग । २. कुत्रवधारय क ग । ४. भधुपुष्पासव पान ग । ६. शुभावता: ग ।
SR No.002465
Book TitleDevi Puranam
Original Sutra AuthorN/A
AuthorPushpendra Sharma
PublisherLalbahadur Shastri Kendriya Sanskrit Vidyapitham
Publication Year1976
Total Pages588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, L000, & L015
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy