________________
पञ्चषष्टितमोऽध्याय:।
ब्रह्मोवाच । तृतीयायान्तु शुक्लायां लिखेद्वस्त्रयुगे शुभे । रोचनासित काश्मीरैः शिवोमां पूजयेत् ततः ॥१॥ हेमरत्न त्रजर्वत्स मन्त्रयुग्ममुदीरयेत् । नदमान मन्त्र शङ्ख यत्तत् पूर्वमुदाहृतम् ॥२॥ तेन जप्यार्चनं होमं कर्त्तव्यं द्विजसत्तम । प्रवियोगाय नारीणां'व्रतराजं सदा हितम् ॥३॥ सहेमं रत्नपुष्पाढ्यं सहस्र दापयेद्भुतम् । महापुण्यं महाभाग्यं सर्वकाम प्रदायकम् ॥४॥ सुत भ्रातृवियोगन्तु न भवेत् तेन भो द्विज । न व्याधिर्नोपसर्गश्च यावत् तन्तुरज मुने ॥५॥ तावत् कालमुमालोके क्रीडते मुदितश्चिरम् । हस्त मात्रा तृण का- अङ्ग ष्ठा तर्जनीगता ॥६॥ प्रदीप्य यावत् सादीप्ता तावत् भोज्यं समारभेत् । देवी संपूजयित्वा तु षोडशान्तेन भावितः ॥७॥ हेम पुष्पैस्तथा गन्ध स्त्नैश्चित्रैर्यथा विधि । संवत्सरं यथान्यायं सत्यान् कामानवाप्नुयात् ॥८॥ प्रदीप्ता नवमी वत्स हेम गोदक्षिणा मता । व्रतान्ते विधिना तेन संग्रामे अपराजितः ॥६॥ भवते शत्रुसंघस्य यथा देवो महेश्वरः । अनेनैव विधानेन गुग्गुला गुडिकाथवा ॥१०॥ पूजयित्वा शिवां मन्त्रः प्रदीप्ते होमयेद्विधौ । पूर्वोक्ता दक्षिणा चात्र फलं वाजिमखोदितम् ॥११॥
मनुरुवाच । ग्रहदोषापसृष्टस्य राज्ञो राजसुतस्य वा । महिष्या वा मृतापत्या द्विजातिष्वथ राजनि ॥१२॥ विपदद् गते फलं यस्य सुप्रयत्न कृतोद्यमे । गजाश्व गोवृषाणाञ्च यत्र हानिः प्रजायते ॥१३॥ यत्र भौमान्तरीक्षे च उपसर्गः प्रदृश्यते । तत्र कुर्य्यान्महायोगं प्राज्ञं पुष्याभिषेचनम् ॥१४॥ मूलं राजा समाख्यातस्तस्य शाखा प्रजादिकम् । तदुपघातसंस्कारः शुभे वा अशुभेऽपिवा ॥१५॥
२. व्रजं ख।
१. नवीनां ग। ३. समुत्सवम् कग। ४. गुग्गुली गुलुकं यवा ग।