________________
चतुषष्टितमोऽध्याय:
ब्रह्मोवाच ।
वृषं गावौ समादाय युवानौ लक्षरणान्वितौ। हेमशृङ्गौ शफे रौप्यौ सवस्त्रौ पूजयेन्मुने ॥१॥ शिवोमां पूजयित्वा तु तद्दिने यः प्रयच्छति । शिवभक्ताय विप्राय रोहिण्यां वा मृगेण वा ॥ २ ॥ न वियोगो भवेत् तस्य सुतपत्नीपति वृत । वातरंहस वे मानर्गच्छेच्छिवपुरं द्विजः ॥ ३ ॥ तत्र भोगांश्चिरान् भुक्त्वा इह आगत्य जायते । समृद्धो धनधान्यास्यां पुत्रमित्र समाकुलः ॥४॥ विगतारिर्भवेद् ब्रह्मन् व्रतस्यास्य प्रभावतः । यो वा रत्नसमायुक्तं गोयुगं पूजयेन्मुने ॥५॥ प्रयच्छति शिवोमे च प्रीयेतां भावितात्मनः 1
स सर्व्वपापञ्च दुःखेभ्यो विमुक्तः क्रीडते सदा
लोके भवेद्धन्यो देहान्ते परमं पदम् ॥६॥ इति श्री देवी पुराणे गोरत्नव्रतं नाम चतुषष्टितमोऽध्यायः २ ॥
१. यो युग क ग ।
२. इत्यभ्युदये गो रत्नव्रतम् क ग ।