________________
देवीपुराणम्
तृप्तेश्वरे त्रिशूली च श्रीशैले त्रिपुरान्तकम् । जल लिङ्ग विदुः कालं कपाली करवीरके ॥१३॥ दीप्तचक्रेश्वरे वेदं नेपाले पशुपति पतिम् । श्रीकारा रोहणे लकुट वेदीकाया' मुमापतिम् ॥१४॥ गङ्गायां सागरे त्वमयमोङ्कारममरकण्टके । सप्तगोदावरे भीमं स्वयम्भूर्नकुलेश्वरे ॥१५॥ कणिकारे गणाध्यक्षं भूर्भुवं गन्धमादने । सिद्धेश्वरन्तु आकाशे पाताले हाटकेश्वरम् ||१६|| अष्टषष्टिस्तु नामानि देवदेवस्य धीमतः । पुराणे चोपगीतानि ब्रह्मणा च स्वयम्भुवा ॥ १७ ॥ यः पठेत् प्रातरुत्थाय स्नातो वा यदि वा शुचिः । मुच्यते सर्व्वपापेभ्य शिवलोकञ्च गच्छति | १८ |
इति श्री देवी पुराणे महादेवस्याष्टषष्टिनामकीर्त्तनं नाम त्रिवष्टितमोऽध्यायः ४
।
१. वक्त्रेखटे ग । ३. धीमतो क ग ।
२. देविकायाम् ग ।
४. इत्याद्ये देवीपुराणे अष्टषष्टि नामानि महादेवस्य ग ।
२४३