________________
त्रिषष्टितमोऽध्याय:।
मनुरुवाच । मन्दरस्थं महादेवं ब्रह्मा पृच्छति शङ्करम् । केषु केषु च स्थानेषु द्रष्टव्योऽसि मया प्रभो ॥१॥
ईश्वर उवाच । वाराणस्यां महादेवं प्रयागे तु महेश्वरम् । नैमिषे देवदेवन्तु गयायां प्रपितामहम् ॥२॥ कुरुक्षेत्रे विदुः स्थानं प्रभासे विश्वरूपिणम् । पुष्करे तु अयोगंधं विश्वञ्च विमलेश्वरे ॥३॥ अहासे महानादं महेन्द्र तु महाब्रतम् । उज्जयिन्यां महाकालं माकोटे तु महोत्कटम् ।
शकुकर्णे महातेज गोकर्णे च महाबलम् ॥४॥ रुद्रकोट्यां महायोगी महालिङ्ग स्थलेश्वरे । हर्षे च हर्षितञ्चैव सर्वं मध्यमकेश्वरम् ॥५॥ केदारे चैव ईशानं रुद्र रुद्र महालये । सुवर्णाक्षे सहस्राक्षं वृषभे वृषमध्वजम् ॥६॥ भैरवे भैरवाकारं भव शस्त्रपदे विदुः । उग्रं कनखले चैव भद्रकर्ण ह्रदे शिवम् ॥७॥ देवदारुवणे दिण्डिचण्डं मध्यम जङ्गले । उर्ध्वरेतं तुरुण्डे च सुकलान्ते कपद्दिनम् ॥८॥ कृत्तिवासञ्च एकाने सूक्ष्मञ्चाभ्रतिकेश्वरे । कालंजरे नीलकण्ठं श्रीकंठं मंडकेश्वरे ॥
___ध्यानसिद्धेश्वरे योगी गायत्रीञ्चोत्तरेश्वरे॥६॥ विजयं नाम काशमीरे जयन्तं मरुकेश्वरे । हरिश्चन्द्र हरिञ्चव पुरिश्चन्द्र तु शङ्करम् ॥१०॥ जटि रामेश्वरे विद्यात् सौम्यं कुक्कुटकेश्वरे। भूतेश्वरे भस्मगोत्रं जललिङ्ग जलेश्वरम् ॥११॥ भिक्षुकं करिकायान्तु वाराहं विन्ध्यपर्वते । ताम्र पश्चिमसन्ध्याया विरजायां त्रिलोचनम् ॥१२॥
३. वस्त्रापदे क ग।।
१. ग पुस्तके नास्ति ४. दणुग। ६. स्वफलां ग
२. वर्णा रन्यो तु सहस्नाख्यं ग।
५. जंगम ग। ७. अलप्रियम् ग।