________________
द्विषष्टितमोऽध्यायः ।
ब्रह्मोवाच ।
वैशाखे तु प्रकर्त्तव्या पूजा पाटलजैः स्रजे । सर्व्वकाममवाप्नोति ज्येष्ठे पद्मार्जुनैस्तथा ॥ १ ॥ श्राषाढे विल्व कलारैरिहितं लभते फलम् । नोमाली कुसुमैः पूजा न मे कार्य्या महाफला । कदम्ब चम्पकैरीषे सर्व्वकाम फलप्रदा ॥२॥
पूजा पङ्कजमालाभ्यां सर्व्वाभ्युदयदायिका । शतपत्रिकया पूजा कार्त्तिके सर्व्वकामिका' ॥३॥ मार्गे नीलोत्पला पूजा पुष्ये कुंज कजास्तथा । माघे कुन्दकृता पूजा सर्व्वकाम प्रदायिका ॥४॥ फाल्गुने मरुपत्रोत्था माधवी शुभदायिका । एवं सवत्सरं चैत्रयां यः कुर्य्याद् ग्रहसत्तम ॥५॥ गन्धपुष्पान्न वस्त्रैश्च तस्य पुण्यफलं श्रणु । हेमगो भूमि वस्त्रान्न विद्यादान फलं लभेत् ॥६॥ वाजपेय महामेध राजसूय शताधिकम् अश्वमेधं पशुमेधं गोमेधं क्रमशः फलम् ॥७॥ लभते दक्षिणा होमं व्रतान्ते विधिना ददेत् । पूरणं फलपुष्पश्च वस्त्रपट्टत्रजान्नजम् ॥८॥ धृत क्षीरदधिभक्तैः सर्व्वकाम फलप्रदः । एवं भावानुरूपेण यस्तु पूजां प्रकल्पयेत् ॥ ६ ॥
शिवाय संभवेद् वत्स शिव स्थानचरः सदा ॥ १०॥
इति श्री देवीपुराणे प्रतिमापूजा नाम द्विषष्टितमोऽध्यायः ४
१. सर्व कार्य की ग ।
३. दश ग ।
२. हेमं ग ।
४. आद्ये प्रतिमापूजा ग ।
事