________________
२४०
एकषष्टितमोऽध्यायः
विगतारिनिरातङ्क इह चान्ते परं पदम् । एकादश्या वृषे पूजा कार्या सोपहारका' ॥१५॥ धनवान् पुत्रवान् कान्ते वृषलोके महीयते । द्वादश्यां पूजयेद्विष्णु कर्प रागुरु चन्दनः ॥१६॥ हविष्यान्नं महावाहो का विष्णुपदं लभेत् । कामदेवस्त्रयोदश्या पूजनीयो यथाविधि ॥१७॥ रति-प्रीति-समायुक्तो प्रशोक-मणि-भूषितः । कुम्भे वा सितवस्त्रे वा लेख्यः पत्रफलादिभिः ॥१८॥ खण्डशर्कर नैवेद्यः सौभाग्यमतुलं लभेत् । चतुर्दश्यान्तु देवेशं शशाङ्काङ्कित शेखरम् ॥१६॥ क्षीरादिस्नपनैः स्नाप्यं धूप-पुष्प-सुगन्धिभिः । पूजनीयं यथान्यायं दमनोमसंयुतः२ ॥२०॥ वस्त्रान्न मणीपूजा च कर्त्तव्या महती शिवे । वितानध्वजछत्रञ्च देयं कार्य्यन्तु जागरम् ॥२१॥ महापुण्यमवाप्नोति अश्वमेधं शताधिकम् । पौर्णमास्या तथा कार्या सर्वकाम समृद्धये ॥२२॥ इन्द्राय शचीयुक्ताय कामिकं लभते फलम् । एवं पञ्चदशाहं च यस्तु पूजा प्रकुर्वते ॥२३॥ सवयज्ञ तपोदान फलान्यस्य अवाप्नुयात् । विचित्र देव भोगेषु क्रीडते दिवि स्वेच्छया ॥२४॥ पुण्यक्षयादिहायातः पृथिव्या भवते नृपः । विगतारिन सन्देह इत्याह भगवान शिवः॥२५॥
इति श्री देवी पुराणे महाभ्युदये दमनकी पूजानामैकषष्टितमोऽध्यायः ।
१. गंधोपकारिकी क ग। ३. देह क ग।
२.हेमर्सचितैः क. ४. इत्याद्ये महाभ्युदये दमनकीपूजा क |