________________
एकषष्टितमोऽध्यायः।
ब्रह्मोवाच । चत्रादौ कारयेत् पूजां मम वत्स यथाविधि । गन्धधूपार्चनादानर्मालाभिर्दमनोद्भवः ॥१॥ सहोमं पूजयेद् देवं सर्वकामानवाप्नुयात् । सर्वतीर्थाभिषेकस्य फलं प्राप्नोति मानवः ॥२॥ उमां शिवं हुताशञ्च द्वितीयायान्तु पूजयेत् । हविष्य-मन्त्र-नैवेद्य देयं गन्धार्चनं पुरा ॥३॥ फलमाप्नोति विप्रेन्द्र उमया यत् प्रभाषितम् । तृतीयायां यजेद्देवी शंकरेण समन्विताम् ॥४॥ कुङ्कुमागुरु-कर्पूर-मणि-वस्त्र -सच्चिताम् । सुगन्ध-पुष्प-धूपश्च दमनेन सुमालिताम् ॥५॥
आन्दोले दोलयेद् वत्स शिवोमा तुष्यते सदा । रात्री जागरणं कार्य प्रातर्देया तु दक्षिणा ॥६॥ हेमवस्त्रानुपात्राणि ताम्बूलानि नजानि च । सौभाग्याय सदा स्त्रीभिः कार्य पुत्रसुखाथिभिः ॥७॥ गणेशे कारयेत् पूजां लडडुकादिभिर्भावितः । चतुर्थ्यां विघ्ननाशाय सर्वकाम-समृद्धये ॥८॥ पञ्चम्यां पूजयेन्नागाननन्तायान् महोरगान् । क्षीरसपिस्तु नैवेद्य देयं सर्वविषापहम् ॥६॥ षष्ठयां स्कन्दस्य कर्तव्या पूजा सोपहारिणी । इहैव सुखसौभाग्यमन्ते स्कन्दपुरं व्रजेत् ॥१०॥ भास्करस्य तु सप्तम्यां पूजां दमनकादिभिः । कृत्वा प्राप्नोति भोगादीन् विगतारिर्महातपाः ॥११॥
मातराणाञ्च अष्टम्यां पूजां सर्वार्थ गन्धिकीम् ।
कृतवांल्लभते वत्स सिद्धिमिष्टां तु दमनकैः । ॥१२॥ नवम्यां पूजयेदेवी महामहिष-मदिनीम् । कुङ्कुमा-गुरु-कर्प र-धूपान्न-ध्वज-दर्पणः ॥१३॥ दमनमरूपत्रैश्च विजयाख्यं प्रदं लभेत् । धर्मराजे दशम्यान्तु पूजा कार्यानुगन्धकोम् ॥१४॥
१. उल्कायां यत् प्रभाषितम् क । ३. अनुयात्राणि वस्त्रात्रपात्राणि क ग । ५.सर्वावगंधकाम् क।
२. सुमालिनी ग। ४. अनंताान् क ग ।