________________
२३८
षष्टितमोऽध्यायः
वसते दिवि' हृष्टात्मा जीर्ण संस्कार कारकः । अनाथा वा सनाथा वा पूजनीयाः सदा सुरा ॥२८॥ विशेषेण तु ये पूर्वास्ते ते चेज्या सततं मुने । पृथुना चेष्टमानादौ मैनाके उमाशङ्करम् ॥२६॥ ययातिना च गोमन्ते शङ्करं हरिणा सह । कैलासेऽर्धनारीशं रघुणा पूजितं पुरा ॥३०॥
दिलीपेन तथा राज्ये त्रिमूर्ति कामिकेऽचले । . दक्षिणापि हि संप्राप्तं देवीमिष्ट्गा इहितं फलम् ॥३१॥ अन्येऽपि ऋषयः सिद्धि गताः पूर्तेन कर्मणा ॥३२॥
इति श्री देवी पुराणे देव्यवतारे पूजाविधिर्नाम षष्टितमोऽध्यायः ।
१. वसत्ते विरजे लोके तथारेणुसमः क ग। ३. कुमाणीसां ख ।
२. यमशंकरम् क । ४. आद्य देव्यवतारे 'पूजाविधि क ग।