________________
देवीपुराणम्
गन्धाष्टमी भवेन्मार्गे गन्धर्व फल दायिका । सहस्र क्रतवस्तेन वृषोत् सर्गादवाप्नुयात् ॥१३॥ क्षीराष्टमी महापुण्या चन्द्रलोकफलप्रदा ॥ १४॥
दध्ना विष्णुपदं याति हविषा रविमण्डले । मधुना देवताः सर्व्वाः शिवं शालिकृतान्नजैः ॥१५॥ ब्राह्म नीवार पूजाभि मंङ्गला संप्रयच्छति । इहैव सर्व्वकामानि प्रदद्यात् सर्व्व मङ्गला ॥१६॥ यथेप्सितानि लोकानां शिवा पूर्वन पूजिता । प्रयच्छति सुरलोके चेष्टान्यपि समन्ततः ॥ १७ ॥ प्रपाराम तडागानि देवतायतनानि च । पूर्त्तानि तेष्वपि चेष्टं हेमदानं महामुने ॥ १८ ॥ उपकल्पितेषु भागेषु यदि ' विध्नोपजायते । तदा दुर्गादिषु कार्य्या तिथिषु सर्व्वकामदम् ॥१६॥ वैशाख शुक्लस्य तु या तृतीया नवम्यसौ कार्तिक शुक्ल पक्ष । नभस्य मासस्य तमित्रपक्ष त्रयोदशी पञ्चदशी च माघे ॥ २० ॥ उपरागे चन्द्रमसे वेश्च तं मित्रोऽष्ट कायामयन द्वयं च । पानीय मप्यत्र तिले विभिन्नं दद्यात् पितृभ्यः प्रयतो मनुष्यः ॥ २१ ॥ श्राद्धं कृतं तेन समाः सहस्रं रहस्यमेतत् पितरो वदन्ति ।
एतेषु कालेषु च दान होममुत्सर्गधाता यत्नेषु दत्तम् । अनन्तकल्पं सुर सिद्धगीतम् वेदेषु चेष्टं मुनयो वदन्ति ॥ २२ ॥
अथवा जीर्ण संस्कार विधिः पुण्यो महामुने । देवतादिषु कर्त्तव्यो महाभोग फलेप्सुभिः ॥ २३ ॥
मूलादष्टगुण पुण्यं जीर्णसंस्कारके भवेत् ॥ २४॥
तस्मादनाथ जीर्णेषु कार्य्यं संस्करणं सुने । स्वकीयं परकीयं वा यथाविभव विस्तरः ॥२५॥ स्वतो वा परतो वापि यस्तु संस्कुरुते सुरान् ।
से यावच्चन्द्र सूय्यों द्यौस्तावत् कालं सुखी भवेत् ॥ २६ ॥
लोकेषु तेषु देवानां विरतस्तेषु
२३७
१. क पुस्तके पंक्तिर्नास्ति ।
३. कूपाराम क ग ।
५. युगादिषु क ग । ७. श्रीत्वम् ग ।
दृष्टधीः । यथा गोमेध यज्ञेषु पशुरोमसमाः समाः ॥ २७ ॥
२. पूर्त्ते न क ग ।
४. होमदानं महामुने क ग ।
६. उपल्पबे क ग ।
८. विरजः क ग ।