________________
षष्टितमोऽध्यायः।
मनुरुवाच । अश्वमेध समं पुण्यं वृषोत्सर्गादवाप्यते । रेवत्याञ्चाश्विने मासि कात्तिक्यां कात्तिकस्य वा ॥१॥
गो विवाहोऽथवा कार्योऽमायां वै फाल्गुनेऽपि वा। शिवाया मङ्गलं चैत्रं तृतीयायां महाफलम् ॥२॥ अश्वत्थोडुम्वरीयागं विवाह विधिना भवेत् ।
सतोरणं भवेत् तीर्थे उत्सर्ग गोकुलेऽपि वा ॥३॥ चतस्रो वत्सिका भद्रा द्वौ वा सम्भवतोऽपि वा । वत्सं सर्वाङ्गसंपूर्ण कन्या सा लोहिता भवेत् ॥४॥ अलङ्कृत्य यथा शोभा उत्सर्ग कारयेन्मुने। विवाहमेक वत्सैकं नीलेन भवते सदा ॥५॥ वृषेण अश्वमेधस्य यज्ञस्य फलदायकम् । जायेरन् बहवः पुत्रा योकोऽपि गयां व्रजेत् ॥६॥ यजेद्वा अश्वमेधं नीलं वा वृषमुतसृजेत् । लोहितो यस्तु वर्णन शङ्खवर्ण मुखो वृषः ॥७॥ लाङ्गुलशिरस श्चैव स वै नीलवृषः स्मृतः । अङ्कित सृज्यते पूर्व गाञ्चालङ्क त्य सर्वतः ॥८॥ तप्तेन वामतश्चक्रं याम्ये शूलं समालिखेत् । धातुना हेमभावेन प्रायसेनाथ वाङ्कयेत् ॥६॥ एवं कृत्वा अवाप्नोति फलं वाजिमखोदितम् । यमुद्दिश्य सृजेद् वत्सं स लभतेऽविचारणात् ॥१०॥ यथा शिवो अजा अर्चा पूजिता सर्वकामदा । एवं देवत्रयं जप्त्वा अनन्तं लभते फलम् ॥११॥ मङ्गला विहितं यच्च गोदानजं फलं तथा । सहस्र क्रतवस्तेन वृषोत्सर्गादवाप्नुयात् ॥१२॥
१. नृपोत्सातत् ग। ३. वत्सिकामवेत् ग क । ५. शंखवर्णखुरो वृषः क ग। ७. हिंसभारेण क।
२. शिवो वाणगतं क। ४. रोहिणेयस्तु ग क । ६. ओंकित क। ८. मजा अर्चा क ।