SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ देवीपुराणम् २३५ कन्यास्थे च रवौ वत्स पूजनीया यथाविधि । भौजङ्गों तिथिमाश्रिय' यावच्चन्द्रार्कसंगमम् ॥१६॥ ऋक्षे पिण्ड प्रदानन्तु ज्येष्ठ पुत्रों विवर्जयेत् । आहवेषु विपन्नानां जलाग्नि गुपातिषु ॥१७॥ चतुर्दश्यां भवेत् पूजा अमावस्यान्तु कामिकी । कन्यास्थे तु रवौ दिवे शुक्लाष्टम्यां प्रपूजयेत् ॥१८॥ सोपवासो निशार्द्ध तु महाविभवविस्तरः । पूजा समारभेद् देव्या ब्रह्मः वरुणोऽपि वा ॥१६॥ पशुघातः प्रकर्त्तव्यो गरलाजवधस्तथा । वलिक्षेपस्तु रक्षारणां कार्य्यः सर्वेषां शान्तये ॥२०॥ रथयात्रा प्रकर्त्तव्या या पुरा संप्रकीर्तिता। महोत्सवं महापुण्यं तस्मिन् देवी प्रपूजयेत् ॥२१॥ तुलास्थे दीपदानेन पूजा कार्या महात्मना । दीपवृक्षाः प्रकर्तव्या दीप चक्रास्तथापरा ॥२२॥ दीपयात्रा प्रकर्त्तव्या चतुर्दश्यां कुहूषु च । सिनी वाली स्तथा वत्स तदा कायं महाफलम् ॥२३॥ सर्वशेषे प्रकर्त्तव्यं बलिपूजा होमोत्सवम् । देवतानां समुत्थानं कायं पौष्णासु बुद्धिमान् ॥२४॥ नैराजनं प्रकर्त्तव्यं नृनागतुरगादिषु । कात्तिक्यां कारयेत् पूजां यागं देवीप्रियं सदा ॥२५॥ ब्रह्मविष्णु शिवादोनां तत्र पूजा महाफला । गवां सर्ग प्रकर्त्तव्यं नीलं वा वृषमुत्सृजेत् ॥२६॥ सर्व यज्ञ फलं ब्रह्मन् प्राप्नुयादविचारयन् । अस्त्राणां पूजनं तत्र कर्त्तव्यं सर्वसिद्धये ॥२७॥ मार्गे पूजा प्रकर्तव्या अहिर्बुध्नेक्षणा शुभा । सोमा कारयेत् पूजां सव्वंकाम फलप्रदाम् ॥२८॥ पुष्ये पुष्यामिषेकन्तु कर्तव्यं पूजयेज्जयाम् । चतुर्थ्यां शुक्लमाघस्य महापूजा विधीयते ॥२६॥ माध्यां पूजा प्रकर्तव्या देवी व मङ्गलां यजेत् । फाल्गुने पूजयेद् देवी चण्डिकेति च या मता ॥३०॥ मातराणां विशेषेण तत्र पूजा विधीयते । एवं सर्व गता देवी सर्वदेव तनुस्थिता ॥३१॥ पूजिता विधिना वत्स सर्वकामान् प्रयच्छति ॥३२॥ इति श्री देवीपुराणे त्रैलोक्याभ्युदये पादे पूजाप्रशंसानाम एकोनषष्टितमोऽध्यायः । ३. रक्षः क ग ।।.. १. प्रासाद्य क ग। ४. महाफला ग । ६. महोत्सवम् म । २. जयाग्नि मगुपात्रिषु क ग । ५. शिनीवाली ग। ७. इत्यभ्युदयपादे क्रसपूजा ग।
SR No.002465
Book TitleDevi Puranam
Original Sutra AuthorN/A
AuthorPushpendra Sharma
PublisherLalbahadur Shastri Kendriya Sanskrit Vidyapitham
Publication Year1976
Total Pages588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, L000, & L015
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy