SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ ratoष्टितमोऽध्यायः ब्रह्मोवाच । सर्व्वकाम प्रसिध्यर्थ पूजनीया यथा शिवा । तथा ते कथयिष्यामि शृणु वत्स समासतः ॥१॥ चैत्रा या समाख्याता पूजा सर्व्वार्थ साधनी । तस्या' भेदान् प्रवक्ष्यामि इष्टापूर्ति प्रसिद्धये ॥२॥ चैत्रां चित्रक्षणां पूजा कृत्वा त्वष्टा फलं लभेत । तृतीयायान्तु वंशाखे रोहिर्ण्यक्षे प्रपूजयेत् ॥ ३॥ उदकुम्भ प्रदानेन ब्रह्मलोके महीयते । इन्द्राग्नि देवते मृदो पौर्णमास्यां तथैव च ॥४॥ पूजां कृत्वा भवेद् ब्रह्मन् विगताघो नरोत्तमः । श्रग्नौ परिग्रहः कार्य्यो दानं देयं द्विजातिषु ॥ ५ ॥ त्रयाणामेकमादाय अग्नि देवीं प्रपूजयेत् । श्रग्निहोत्री भवेत् पूतः शेषं वरणकितं फलम् ॥ ६ ॥ मूलर्क्षे पशुपातेन ज्येष्ठां देवीं प्रपूजयेत् । सर्व्वकामानवाप्नोति भावशुद्धेन कर्मणा ॥७॥ श्राषाढे मासि यो देवीमाषादर्क्षे प्रपूजयेत् । सर्व्वान् कामानवाप्नोति देवी लोकं च गच्छति ॥८॥ श्रावणे पूजयेद् देवीं प्रतिपद्यादितः क्रमात् । ब्रह्ममूर्तिगता ऋक्षे पौष्ये भौजङ्गमेऽपिवा ॥ ॥ अथवा सुविधानेन पवित्रारोहणं भवेत् । ब्रह्माग्न्युमा गणेशस्य नागस्कन्धतनुस्थिता ॥ १० ॥ रविमातर रूपा तु मङ्गलायनरूपगा । वृषविष्णु समाकारा कामरुद्र समाकृती ॥११॥ शक्ररूपा प्रयष्टव्या देव्या गन्ध स्रगादिभिः । प्रथमे चाश्रमे पूजा गृह्य कर्म व्रतादि च ॥ १२ ॥ कृत्वा कामानवाप्नोति विगताघो मुनीश्वरः । प्रोष्ठे पौर्णासु कर्त्तव्या पूजा जागरणं निशि ॥१३॥ महोत्सवविधानेन सौत्रामणिफलं लभेत् । श्रष्टम्यां रोहिणों ऋक्षे सोपवासन्तु पूजयेत् ॥१४॥ विष्णुलोकमवाप्नोति सव्र्व्वकाम समृद्धिदम् । तत्रैव कारयेद् देवीं पितृरूपा महोदयाम्॥१५॥ १. तस्य भेदान क ग । ३. पद्यमिदं ग पुस्तके नास्ति क पुस्तकेऽपि नास्ति । ५. पितृरूपींग । २. ग पुस्तके श्लोकद्वयं नास्ति । ४. धामात् क ।
SR No.002465
Book TitleDevi Puranam
Original Sutra AuthorN/A
AuthorPushpendra Sharma
PublisherLalbahadur Shastri Kendriya Sanskrit Vidyapitham
Publication Year1976
Total Pages588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, L000, & L015
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy