SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ देवीपुराणम् २३३ तुतोष तस्य नृपतेस्तेन भाग्यत्वमाप्नुयात् । तुष्टेन देवदेवेन वरं दत्तं द्विजोत्तमम् ॥१५॥ अनिरुद्धस्तु त्वं वत्स मम तुल्यो भविष्यसि । शंखचक्रासि पाणिस्त्वं सर्वकामाल्लभिष्यसि ॥१६॥ कृत्वा दिव्यायुतं राज्यं मम सायुज्यमाप्यसि ।भाग्यस्यैकादशाक्ष न्तु तेन चान्यापि या तिथिः ॥१७॥ तस्मिन् संपूजिता देवाः सर्वकामप्रदायकाः । प्रभवादि समे श्रेष्ठे युगे चैव मनोरमे ॥१८॥ भाग्याख्या द्वादशी तात अष्टम्यां वा तदर्चनम् । यागमण्डल पूजार्चा हरिमुद्दिश्य कारयेत् ॥१६॥ प्राचार्याय प्रदातव्यं हेमगोभूतिलादिकम् । दक्षिणा प्रात्मसारेण पुनाति नरकार्णवात् ॥२०॥ युगं भाग्यप्रभावेण प्रयच्छति फलं हरिः । यथा काले च क्षेत्रे च एकापि कणिका मता ॥२१॥ प्रयाति शतधा बृद्धि यथा चान्ये युगे द्विजः । यथा माघे तथा पौष्ये वासरेऽपि द्विजोत्तम ॥२२॥ • तुल्यं पुण्यं विजानीयाद् द्वादश्यामष्टमीषु च । तुष्यते देव देवेशः शशाङ्काङ्कित' शेखरः ॥२३॥ पुत्रायु-राज्य-सौभाग्यं प्रयच्छति जनार्दनः । यः पुनर्माघमासेन करोति हरिरर्चनम् ॥२४॥ पद्म सुलक्षणोपेते वर्णकैरुपशोभिते । तस्य तुष्यति देवेशश्चक्रपाणि जनार्दनः ॥२५॥ इति श्रीदेवीपुराणे भाग्यद्वादशो नामाष्टपञ्चाशोऽध्यायः ॥ १. शरं को केतशेखर : ग । २. त्रैलोक्याभ्युदये भाग्यद्वादशी क ग। .
SR No.002465
Book TitleDevi Puranam
Original Sutra AuthorN/A
AuthorPushpendra Sharma
PublisherLalbahadur Shastri Kendriya Sanskrit Vidyapitham
Publication Year1976
Total Pages588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, L000, & L015
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy