________________
अष्टपञ्चाशोऽध्यायः ।
वृहस्पतिरुवाच ।
कथं स राजां भाग्यन्तु सर्व्वलोकाधिपो विभुः ।
कथञ्च दिव्यतां यायाद् विष्णु सायुज्यतां विभो ॥ १ ॥ सर्व्वदेवेश्वरस्तस्य कथं तुष्ट उमापतिः । एतत् कौतुहलं देव श्रोतुमिच्छामि तत्वतः ॥ २॥ ब्रह्मोवाच ।
I
.
कल्पे सुरोत्तमे पूर्व्वं कैलासे पर्व्वतोत्तमे । दिव्येन तपसा युक्तं भाग्यक्ष तोषितं शिवम् ॥३॥ तेन वरप्रसादेन सर्व्वलोकेश्वरा द्विज । भाग्यो ह्यासीन्महाबाहो सर्व्व देवैरभिष्टुतः ॥ ४ ॥ मेधादिगुण संयुक्तः कामक्रोधादिर्वाज्जतः । सांवत्सरस्तथामात्यः पुरोधा भिषजान्वितः ॥५॥ सांवत्सरोऽथ तत्रज्ञ श्रमात्य सर्व्वं शास्त्रवित् । पुरोधा वेदपौराण दंड्याथर्वशास्त्रवित् ॥६॥ दश यज्ञ क्रिया देवा हितकृदहितोऽन्यथा । भिषजोऽष्टाङ्ग वेदाङ्गो लघुहस्तो जितेन्द्रियः ॥ ७ ॥ अनुरक्तस्तथा भक्तो द्वन्द्वाद्वन्द्वगुणान्वितः । कोषं रत्नादि सम्पन्नं सुभक्त भोगसंयुतम् ॥८॥ भार्या इष्टा हिता नित्यं पुरं हर्म्यसमाकुलम् । अश्वेभवाहनं पुष्टं तस्य चासीद् द्विजोत्तमः ॥ ॥ एवं सर्व्व गुणोपेतं पुरोधानुमते स्थितः । सांवत्सरोदिते काले विजयाय समारभेत् ॥१०॥ ततः कालेन महता शङ्करस्य नृपोत्तमः । तपश्चरन्महातेजा पुत्रायुत समावृतः ॥ ११ ॥ प्राप्ते संवत्सरे पुण्ये युगेऽपितु निरामये । भाग्यक्ष द्वादशी नाम सर्व्वभाग्यप्रदायिका ॥ १२ ॥ - तत्र कृत्वा हरेरच्च यष्टा पद्म यथाविधि । सर्व्व लक्षण सम्पन्ना श्रेष्ठमृक्षभवा मुने ॥१३॥ शर्करार्द्धहरि पुंसः उमेशं स्थापयेद् बलात् । भक्त्या सर्वोपहारेण द्वादशारे तु मण्डले । श्राद्य ेन चक्रराजेन पूजितं मधुसूदनम् ॥१४॥
१. तुष्टमुमापतिः ख । ४. साम्वत्सरो यथाकाले ग ।
२. लोकेश्वरा द्विजा ख ।
५. यागानि तु ख ।
३. वेदज्ञो ग ।