________________
२३१
देवीपुराणम् पूजनीयं मुनिश्रेष्ठ सर्वकामेश्वरेश्वरन् ।
एकानेक विभागस्थं सर्वशास्त्रे क्रियायुतम् ॥२८॥ कामरूपी महादेवं कामदं भवते नृणाम् । सुरासुर मनुष्याणां यक्षरक्षोरगादिषु ।
फलं प्रयच्छति चेष्टं सर्ववुद्धिः प्रभावजम् ॥२६॥ कर्मयज्ञस्तपोपज्ञः स्वाध्यायं च शान्तिदम् । प्रयच्छति फलं यस्मात् पंचधा परमेश्वरः ॥३०॥ तस्मात् तस्य सदा चर्या कर्तव्या हितमिच्छता । हितन्तु चेष्टं संसिद्धि निरवद्य सुखं यतः ॥३१॥ सर्वद्वन्द्व विनिर्मुक्तो ध्यानयोग' सदाभ्यसेत। तच्च भक्ति क्रमात् प्राप्यं कर्मयोगाच्चान्यथा ।
. कर्म पूजा जपो होमं देवा स्थापनादिकम् ॥३२॥ इति श्री देवी पुराणे त्रैलोक्याभ्युदये पादे पूजा प्रशंसा नाम सप्तपंचाशोऽध्यायः ॥
१. एवं नैक क ग। २. क्रियातनुम् क ग । ४. धनयोगं समाचरेन ग क ।
३. स्वाध्यायध्यान शान्तिदं क । ५. त्रैलोक्याभ्युदये पूजाप्रशंसा ग क ।