SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ २३० सप्तपञ्चाशोऽध्यायः ततः पूजा जपं होम मन्त्रस्तोत्र प्रकीर्तनम् । यात्रा मण्डलपूजा च पुस्तकादेश्च पाठनम् ॥१३॥ लोक यात्रा रथ यात्रा कार्य होमं दिने दिने । घृत-क्षीर-मधु-व्रीहि-तिल-बिल्व-दलादिकम् ॥१४॥ होमं कार्य सुगन्धश्च धूपैः पुष्प सदार्चनम् । कर्पूरा गुरुलेपादि वितानध्वज चामरम् । देयं सर्वार्थ सिद्ध्यर्थं सर्वपाप प्रणाशनम् ॥१५॥ ब्रह्मोवाच । मेषादारम्य देवीनां पूजा कार्या सदा मुने । यावत् संवत्सरं पूर्ण सर्वकामफलार्थिभिः ॥१६॥ दिलीपेन यथा पूर्व पूजां कृत्वा क्रमागताम् । सुरोत्तमे महाकल्पे भाग्यऋद्धिस्वकामिना ॥१७॥ तथा च अम्बरीषेण अन्यश्च नृपसत्तमैः । कृता शिवार्चने बुद्धिस्तिथिकालक्रमागताः ॥१८॥ यो विभाज्य पुरा ह्यकः कालव्यापी' महेश्वरः । सर्वदेवतनु भूत्वा प्रयच्छति फलं नृणाम् ॥१६॥ यज्ञमाज्यं तथा पूपं वेदवक्त्र' स मन्वितः । दत्वा फलं द्विजातिषु पूतैः सर्वेषु धम्मिषु ॥२०॥ सर्वां च मङ्गलां रूपां कृत्वा चाष्टशतां तनुम् ॥२१॥ पुनाति सर्वलोकान् स क्रियाभावाङ्गमीश्वरः । सर्वेषु चागता देवी सर्वदेव रभिष्टुता ॥२२॥ वैष्णवीं तनु मास्थाय स्थिता सा व्यवहारतः । वर्णाश्रमागतान् धर्मान् यथाकालं क्रमागतान् ॥२३॥ तथा तथा सुरेशान प्रयच्छति नृणां सदा । रजस्तोमा विजानीयात् सृष्टिहेतुं स्थितौ पुनः ॥२४॥ विष्णुः सत्त्वं गतो नाशे कालः सततमाश्रितः । त्रयाणां समतां वत्स महादेवः सदाशिवः ॥२५॥ स ईशः सर्वदेवानां नाना भेदगतः पुनः । क्रियाख्या ज्ञान भेदेन शतधाथ सहस्रशः ॥२६॥ भेदो न शक्यते वक्तुं लोकेषु स्वल्पवुद्धिषु । एवं विदित्वा भिन्नेच्छा इष्टापूर्तगतं विभुम् ॥२७॥ १. कालरूपी कग। ३. तत्त्वं ग। ५. शतसमाश्रितः क। २. वेदोक्तङ्कारक्तमान्वितः ख। ४. रजस्थोर्मा क।
SR No.002465
Book TitleDevi Puranam
Original Sutra AuthorN/A
AuthorPushpendra Sharma
PublisherLalbahadur Shastri Kendriya Sanskrit Vidyapitham
Publication Year1976
Total Pages588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, L000, & L015
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy