SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ सप्तपञ्चाशोऽध्यायः । मनुरुवाच । धेनुं तिलमयीमाध्यां ददयाद् पुरुषश्चोत्तरायणे । सर्व कामानवाप्नोति ज्यैष्ठे जलमयीं ददेत् ॥ १ ॥ पुष्ये घृतमयों दद्याच्छ्र ेष्ठाहि विधिना मुने । इहिताँल्लभते लोकान् स्थानेषु विविधेषु च ॥२॥ शौनक उवाच । प्रभवादि त्वया तात देव्याः षष्टिरुदाहृता । विस्तरात् पूजनं तासां कालान्तरफलप्रदम् ॥३॥ संक्षेपादेककायस्थां' देवीमातृग्रहान्विताः । त्रिदिव लोकपालेन संयुक्ताः सर्व्वकामदाः ॥४॥ षष्टिवर्षकृता पूजा मासैकेन प्रयच्छति । तथा कथय मे सर्व्वं सर्व्वलोकसुखावहम् ॥५॥ मनुरुवाच । म. राजततामा वा काष्ठाद्या मृन्मयापि वा । चित्रा वा रत्नजा चापि कार्य्या देवी सुलक्षणा ६ ॥ शुभद्रव्यभवा चान्या सिंह पद्मग्रहान्विता । मातरो भय संयुक्ता चच्चिता मुकुटान्विता ॥७॥ गणेशस्कन्द सम्पन्ना लोकपालसमन्विता । ब्रह्म शविष्णु शिरसा नीलोत्पलकरा वरा ॥ ८ ॥ खड्ग खेटकधारी च शरच्चन्द्रकरापि वा । चन्द्र सूर्य्यकरा कार्य्या यावत् षष्टि कृताधिका ॥१॥ द्विभुजां भावरूपेण कारयेद् भुजकल्पनाम् । एवं कृत्वा शुभां देवीं इन्द्रमणि गृहे यजेत् ॥ १० ॥ द्विवद्धा शतमष्टौ च शरदण्डमथापि वा । सौम्यास्ये सौम्यसंस्थानां यश्चास्यन्तेजसे गृहम् ॥११॥ तस्य पूर्वे समं कुण्डं कार्य्यमैन्द्रं सुखावहम् । पूर्व्वास्यं पश्चिमास्यं वा यत्र वा रमते मनः ॥१२॥ १. कामस्था ग । ३. हेमता गयीं वापि क ग । ५. यावच्छान्तिः कृताधिका क । ७. द्विवृध्या शत यष्टी करदंडं क ग । २. समैके न ग । ४. चर्चिकां क न । ६. रुद्रमाते ग्रहे यजेत् क ग । ८. सौख्य संस्थानां ख ।
SR No.002465
Book TitleDevi Puranam
Original Sutra AuthorN/A
AuthorPushpendra Sharma
PublisherLalbahadur Shastri Kendriya Sanskrit Vidyapitham
Publication Year1976
Total Pages588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, L000, & L015
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy