________________
देवीपुराणम्
२१६
श्री'वेष्टकं कुष्ठञ्च वृक्षादि गुग्गुलं तथा । गुडोदनं रवेर्देयं पायसं हविषान्वितम् ॥१२॥ दध्योदनं बुधे देयं गुरौ क्षीरोदनं तथा । घृतान्नं तिलमासान्नं मासं चित्रौदनं तथा ॥१३॥
गां सुरक्ता रवौ दद्याच्छ ङ्गी सोमे वृषं कुजे ।
काञ्चनं वस्त्रमश्वञ्च गां सुकृष्णामजायसम् ॥१४॥ दक्षिणां गन्ध पुष्पादि स्वं स्वं वर्ण प्रदापयेत् । होम ग्रहादि पूजाय शतमष्टाधिकं पि वा ॥१५॥ अष्टाविंशाष्ट होमन्तु यथा प्राप्तिविधीयते । लक्षहोमं प्रकर्त्तव्यं सर्व पोडा निवारणम् ॥१६॥ गायत्र्या ग्रहमन्त्रैश्च कुष्माण्डी जातवेदसः । ऐन्द्र वारुणश्चाग्नश्च वायु यामस वैष्णवैः ॥१७॥ होमं शतसहस्रन्तु अष्टोत्कृष्टं विधीयते । सर्व पोडा विनाशाय कोटि होमं शुभावहम् ॥१८॥ यव व्रीहि घृतं क्षीरं तिलाकगु प्रशान्तिकं । पङ्कजोशीर विल्वाम्र दलं होमे प्रकोत्तितम् ॥१६॥ सर्व शास्त्रार्थ कुशल ग्रहमातृ प्रपूजकैः । होमं कार्य सदा विप्र सर्व शान्ति प्रदायकैः ॥२०॥ ग्रह कृत्योपसर्गादि ऋतुमास समाः शुभाः । यक्षरक्षः कृता' पीडा लक्षहोमात प्रशाम्यति ॥२१॥
इति श्री देवीपुराणे मातृ ग्रहलक्षहोमविधिर्नाम चतुःपञ्चाशोऽध्यायः ॥
१. ग्रा क ग्रो ग।
२. हविषात्वित क। ३. सुवर्णा क ग। ४. द्रद्याछस्वं क। ५. सुदृष्टा क ग ।
६. वो क ग । ७. गुंड क ग ।
८. क्षीरं तिलाः कुगु कशांतिकां क। ६. प्रकोतिताः क।
१०. वृताक। ११. आद्येऽभ्युदये मातृगृहलक्षहोमविधि क ग ।