________________
शौनक उवाच ।
सर्व्व लोकोपकाराय संक्षेपान्न तु विस्तरात् । उत्पात शमनीं शान्ति श्रोतुमिच्छामि तत्त्वतः ॥ १ ॥
पञ्चपञ्चाशोऽध्यायः ।
मनुरुवाच ।
श्रपचारेण लोकानामुपसर्गं महात्मनाम् ' । अपरक्ता विनाशाय सृजन्ते देवता मुने ॥२॥ उत्पातान् विविधाकारांस्त्रिधावस्थानुपस्थितान् । दिव्यान्तरीक्षान् भौमांश्च यथावत्तान् निबोधत ॥ ३ ॥
स प्राचीन्दिशमन्वावर्त्तते । अथ यदास्य मणि मणिक कुम्भ स्थाली दरणामायासो राजकुल विवादो वा यानच्छत्र शय्यासनावसथो ध्वजगृहैकदेशः प्रभज्यते । गजवाजि मुख्या प्रम्रियन्ते हस्तिनी वा माद्यति इत्येवमादीनि तान्येतानि सर्व्वाणि इन्द्र देवत्यान्यद्भुतानि प्रायश्चित्तानि भवन्ति । इन्द्र विश्वा श्रवीवृषमिति स्थाली पार्क कृत्वा पञ्चभिराज्याहुति: जुहोति । इन्द्राय स्वाहा । शची पतये स्वाहा । वज्रपाणये स्वाहा । ईश्वराय स्वाहा । सर्व्व पापप्रशमनाय स्वाहेति । व्याहृतीश्च पृथक् कृत्वा ॥४॥ स दक्षिणां दिशमन्वा वर्त्तते । अथ यदास्य शरीरे चाविष्टानि ' भवन्ति व्याधयो वानेक विधाः । स्वप्नमस्वपनाति भोजनमभोजनमतिनिद्रा स्वालस्यं गृहद्वारेण वा सर्पोऽपगच्छते कपोतः प्रविशति । स्त्री शरीरे वारोहति । कृष्ण स्त्री दर्शन मादेश्यम्' इत्येवमादीनि तान्येतानि सर्व्वारिण यम देवतान्यद्भ तानि प्रायश्चित्तानि भवन्ति । नाके सुपर्णमिति १०
१. कृतात्मनां क ग ।
४. अधि क ग ।
।
७. गच्छति ६. मादेश क ग ।
२. उपस्थितान् क ग ।
५. हुत्वा क ग ।
८. वारुहति क ग ।
१०. पुस्तके नास्तिक ।
३. विवाहो क ग ।
६. वानिष्टा क ।
७