________________
चतुःपञ्चाशोऽध्यायः।
मनुरुवाच । सहस्र' लक्षणोपेतं वैदूर्ये कारयेच्छिवम् । हैम पीठं सुशोभाढ्यं वज्राङ्क तत्र मातराः ॥१॥
चच्चिकायाः प्रकर्त्तव्याः पूर्वादि परिकल्पिताः ॥२॥ महा भय विनाशाय ऋतुयाग प्रपूजिताः । शिवं रुद्र सदा वत्स करिणकायां निवेशितम् ॥३॥ महाविभव सारेण वस्त्र गन्धं सुपूजितम् । प्रयच्छति शुभान् कामान् मनोऽभीष्टान् सदा जने ॥४॥ तस्य पूजा प्रकर्त्तव्या गेहे सर्वत्र कालिके । जप होमार्चनं पूजा त्रिकालं सततं भवेत् ॥५॥ कुङ्क मागुरू कर्पूर मद चन्दन रोचनाः । गन्ध पुष्पाश्च दातव्याः सितनि-ससिद्धकाः ॥६॥ सर्वभय विनाशाय प्रमाथी पिङ्गलापि वा । शनि सूर्या च राहूत्था क्षयादि महदापदः ॥७॥
अन्न' जन्मलं मृत्युस्थाः समं यान्त्यविचारणात् ।
ताम्र पत्रे प्रकर्तव्या ग्रहभाग प्रकल्पिता१ ॥८॥ रक्त चन्दन मिश्रेण तोयेन सतते जिताः । रक्त करवीरपुष्पर्मन्त्र पूतार्थपूजिताः ॥६॥ व्योमे वा मण्डले वापि सर्वकाम फल प्रदा । अर्क पलाश खदिरा अपामार्गोऽथ पिप्पला ॥१०॥
श्री फलां शमी'3 दूर्वा च कुशाग्राः समिधो मताः। धूपं गुग्गुलुलोध्रस्य'५ सज चोल दलं परम् ॥११॥
१. षडस् क। ४. वज्रार्द्ध क। ७. गृहे सर्वर्तुकामिके क। १०. अनु क। १३. स फलाशमि क।
२. क पुस्तके नास्ति। ५. क पुस्तके नास्ति। ८. सिहूकाः क ग। ११. भाव प्रकल्पिता क। १४. कुशार्काः क ग।
३. हरपीयं क । ६. सदाजले क ग।
६. महदासयः क। १२. पूर्णार्घ क ग। १५. कुदुर क ।