________________
त्रिपञ्चाशोऽध्यायः ।
आदित्यं भास्कर सूर्य रवि भानु दिवाकरम् । स्रष्टारं तेजिनं भावं जयन्तं शुभदं शिवम् ॥१॥ मकरादि प्रभेदेन आदित्यादि शुभोदयम् । यष्टव्या हस्तमात्रे तु द्विवृध्या धनुषावधि' ॥२॥ शुभदोऽयं जयं भाग्यं कल्याणमपराजितम् । मङ्गलमिष्ट सिद्धिश्च विभवं शुभदं शुभम् ॥३॥ इष्टाख्यं व्याधिनाशन्तु मकरादौ समारभेत् । सर्वपापहरा यागाः सर्वे प्रायुधनप्रदाः ॥४॥ सर्व रोग विनाशाय सर्वे कार्याः सुखाय च । नित्यं श्वेतोपहारेण आयुरारोग्यदायकाः ॥५॥ सुत सौभाग्य कामेन कार्या रक्तोपचारिकाः। पीतेन ग्रहनाशार्थं कृष्णैः शत्रुनिवारणम् ॥६॥ ग्रहाणां यजनं कार्य समन्त्र वलिपूजनम् । फल रत्नौषधी गन्धवीज धातु मृदादिभिः ॥७॥ सप्तोदक समन्त्रेण स्नात्वा भाग्योदयो भवेत् । गजानां तुरगाणाञ्च रविशक समन्वितम् ॥॥ स्नानं होमं प्रकर्त्तव्यं लक्षायुत सहस्रिकम् । मातराणां सदा चक्रं हेमराजतताम्रजम् ॥६॥
पूजन विधिना विप्र संवत्सरं भयापहम् ॥१०॥
इति श्री देवीपुराणे ग्रहमातृविधिर्नाम त्रिपञ्चाशोऽध्यायः ।।
१. भनुरवी क। ४. श्वेतोपचारेण क ग । ७. पूजितं क। ६. आद्ये ग्रहमातृविधिः क ग ।
२. शुभोदयं जदं क। ५. मंत्रितां क। ८. संवत्सर भयापहं क ग ।
३. सुतदं क ग । ६. ताम्रक क ग ।