SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ द्विपञ्चाशोऽध्यायः । मनुरुवाच । शृणु शौनक तत्त्वेन अप मृत्यु निवारणम् । सर्व्व काम प्रदं पुण्यं रवियाग मनुत्तमम् ॥१॥ ग्रहा माघादि भेदेन श्रादित्यं मकरे यजेत् । हस्त मात्रे शुभे पद्म े कणिका केशरोज्ज्वले ॥२॥ कुङ्कुमादि रजैलिख्यमष्टपत्र रखेग्रहम् । आदित्यं पूजयेन्मध्ये पूर्व्वपत्रे निशाकरम् ॥३॥ मङ्गलं वह्निपत्रस्थं दक्षिणेन बुधं यजेत् । शनि नैर्ऋत पत्रस्थं सुरेज्यं वरुणालयम् ॥४॥ वायव्ये सैहिकेयन्तु भार्गवञ्चोत्तरे यजेत् । केतुं शिवाङ्गगे देयं यागे सर्व्वशुभोदये ॥५॥ श्रादि वर्ण कृताधारं श्रादित्यं शम्भुना यजेत् । शेषा वारुख वर्णेन अष्टधाभि दिवेन तु ॥६॥ गन्ध पुष्पं पवित्रन्तु हृदयेन प्रदापयेत् । वरदाभय मुद्रौ तु मध्ये व्योमं प्रदर्शयेत् ॥७॥ सर्व्वं रक्तोपचारन्तु प्रादित्याय प्रकल्पयेत् । स्व स्व वर्णं ग्रहाणान्तु देयं पुष्पविलेपनम् ॥८॥ होमं तिलाज्यक्षौद्रन्तु पायसन्तु निवेदयेत् । एवं कृत्वा जपं देवमादित्याय सुसंख्यया ॥ ६ ॥ स्नानं शिष्याय कर्त्तव्यं मन्त्र पूतेन वारिणा । सर्व्व कामानवाप्नोति यो विधि कारयेदिमम् ॥१०॥ ७ इति श्री देवीपुराणे आदित्ययागोनाम द्विपञ्चाशोऽध्यायः ॥ १. मिदं । ४ घूप क ग । ७. क्रत्वाद्यजं क । २. षक्षेक । ५. वाम क ग । ३. शिवाशंग क । ६. पायसर कग ।
SR No.002465
Book TitleDevi Puranam
Original Sutra AuthorN/A
AuthorPushpendra Sharma
PublisherLalbahadur Shastri Kendriya Sanskrit Vidyapitham
Publication Year1976
Total Pages588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, L000, & L015
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy