SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ देवीपुराणम् २१३ द्विजानां दक्षिणा देया कन्यकानां विशेषतः । लोके पूजा प्रकर्त्तव्या यथाहं च क्रमागता ॥३३५॥ दीनान्ध कृपणानाञ्च अन्नं देयं च सर्वदा । कृमि कीट पतङ्गषु भूमौ दध्योदनं क्षिपेत् ॥३३६॥ सर्वदा सर्वभूतानां सुखं कार्य सुखार्थिना । स्थावरं जङ्गमं वापि ऋतुराज्यं न हिसयेत् ॥३३७॥ एवं युगादिभिर्देव्यो बहुभेदाः सभास्कराः । यस्तु मण्डल कुण्डस्थां कृत्वा चित्रेऽथवा यजेत् ॥३३८॥ नासावाध्यात्मिकादीनि दुःखानि क्वचिदाप्नुयात् । आधिव्याधि कृता पीडा तस्मिन् देशेऽपि नो भवेत् ॥३३॥ सुभिक्षं क्षेम वैराग्यं गज वाजि सदोज्ज्वलम् । हेमरत्नाकराकीर्णं राष्ट्रं तस्य प्रजायते ॥३४०॥ पर्जन्यः कालवर्षी स्याच्छस्यशाली वसुन्धरा । यज्ञ इष्टि रता विप्रा गावो भुवि पयोऽन्विताः ॥३४१॥ पतिव्रता सदा नार्यों भृत्याः स्वामिपरायणाः । नोपसर्गोऽपमृत्युा तत्र देशे भवेत् क्वचित् यत्रेयं सततं पूजा देवीनां क्रियते मुने ॥३४२॥ इति श्री देवीपुराणे देवी संवत्सरमण्डल वलिहरणविधानं नाम पञ्चाशोऽध्यायः । २. क पुस्तके पंक्तीर्न सन्ति। १. ऋतुवाह्य नदीनि दुःखानि क्वचिदप क्रयात् क। . ३. कामवर्षी स्यात्सस्य मालीवसंधरी क ।
SR No.002465
Book TitleDevi Puranam
Original Sutra AuthorN/A
AuthorPushpendra Sharma
PublisherLalbahadur Shastri Kendriya Sanskrit Vidyapitham
Publication Year1976
Total Pages588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, L000, & L015
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy