________________
२१२
पञ्चाशोऽध्यायः
त्रोणि खातं समं कार्यमग्रं कुर्यात् षडङ्ग लम् ।
गोकर्णाकृति शोभाद्य कन्यासाङ्ग लि रन्ध्रगम् ॥३२१॥ घृतं'निष्क्रनणं कायं यवयत्र सुवेक्षितम् । एवं नवं स्र चा कार्ये ताभ्यां होमं सुखावहा ॥३२२॥
शमी गभीरिणी कार्या धैर्याद्धस्त प्रमाणिता । ।
वितस्ति परिणाहाद्यामध्यं वै षोडशाङ्ग लम् ॥३२३॥ वृत्तं करद्वयोपेतं दशाङ्गल सुवृत्तिगम् । पापोडं तं समं कायं मध्ये प्रायास वन्धनम् ॥३२४॥ घटिकाङ्गारयोगार्थं शग रज्ज्वा ययाविधि । सुदृढा वह्नि मन्त्रेण पूजयित्वा तु पातयेत् ॥३२५॥ अभावे सूर्यकान्ते च तदभावात् करीषजा । सामान्यायतनागारे आनयेत् ताम्रभाजने ॥३२६॥ शरावे मृन्मये पात्रे कुण्डे पूजान्विते न्यसेत् । अग्नि चक्र विधानेन सर्व कर्माणि कारयेत् ॥३२७॥ हैमराजत ताम्राणि काष्ठशैल मृदानि च । रत्नादीनि च पात्राणि शुभदेवाङ्कितानि च ॥३२८॥ अर्घ नैवेद्य पूजार्थं वलिदानञ्च कारयेत् । यस्मादेवं विधानेन होमं कृत्वा यथाविधि ॥३२६॥ मण्डलं दर्शयेद् वत्स शुचौ भक्ते उपोषिते । मन्त्रपूतेन 'हस्तेन दत्वा तु शिरसि स्रजम् ॥३३०॥ पुष्पाणि करयोर्दत्त्वा मण्डलान्ते क्षमापयेत् । पतितं यत्र देवीर्द्ध' तदंशं तं विदुर्मुने ॥३३१॥
एवं दृष्टो शिवो वत्स गत्वा वह्ल क्षमापयेत् ।
पूर्णाहुति प्रदानञ्च दृष्ट्वा पापात् प्रमुच्यते ॥३३२॥ सर्वकामानवाप्नोति विगताघो महामुने । स्नातो मन्त्रार्द्धकुम्भाम्भैः सर्व व्याधि विमुच्यते ॥३३३॥
गो भू हिरण्य वस्त्राणि रत्नवाजि गजादि वा । प्राचार्याय प्रदातव्या आत्मानञ्च निवेदयेत् ॥३३४॥
१. घत क ग । ३. एवं श्ववंश्कवि क। ५. अपीडं भस्म संकार्य क। ७. सुदृष्टा स्वहि, क । ६. स्वरोधजा च। १२. क्षिपापयेत् क ।
२. स्वरेखितं क ग। ४. परिणाहाम्यां क ग। ६. अटिकां कुयोगां घं बाल वज्रा प्रमासमा क । ८. अभावात् क ग । १०. यथाविमि, क ग। ११. नेत्र क ग । १३. पुष्प देवोद्धे क । १४. समापयेत् क।