________________
एकोनपञ्चाशोऽध्यायः।
ब्रह्मोवाच । यदयं वदते लोको वालिशत्वान् महामते । तदहं' संप्रवक्ष्यामि चन्द्र सूर्योपराणिकम् ॥१॥ यदि सत्यमयं ग्रस्तस्तेजोराशि दिवाकरः। तत् कथन्तूदरस्थेन' राहुणा भस्मसात् कृतः ॥२॥ अथवा राहणाक्रम्य शत्रु वक्त्रं प्रवेशितः । तत् कथं दशनैस्तीक्ष्णः शतधा च "विखण्डितः ॥३॥ विमुक्तश्च पुनदृष्टस्तथैवाखण्डमण्डलः । न चास्यापह,णुतं तेजो न स्थानादपसारितः ॥४॥ यदि वाप्येष निष्पीतः कथं दीप्ततरोऽभवत् । तस्मान्न तेजसां राशी राहोर्वक्त्र गमिष्यति ॥
भक्ष्यार्थं सर्व देवानां सोमः सृष्टः स्वयम्भुवा ॥५॥ तत्रस्थममृतञ्चापि सम्भवं सूर्यतेजसा । पिबन्ति यस्तूभयं देवाः पितरश्च स्वधा मृतम् ॥६॥ त्रयश्च त्रिशतं चैव त्रयस्त्रिशत् तथैव च । त्रयश्च त्रिसहस्राश्च देवाः सोमं पिवन्ति च ॥७॥ राहोरप्यमृतं भागं पुरा सृष्टं स्वयम्भुवा । तस्मात् तद्रा हुरागत्य पातु मिच्छति पर्वसु ॥८॥ उद्धृत्य पार्थिवीं छायां मन्दकाम तमोमयः । पातुमिच्छन् ततश्चेन्दुमाच्छादयति छायया ॥६॥
शुक्ले च चन्द्रमभ्येति कृष्णे पर्वरिण भास्करम् ।
सूर्य' मण्डल संस्थस्तु चन्द्रमेव जिघांसति ॥१०॥ तस्मात् पिवति . तं राहुस्तनुमस्य विनाशयन् । अविहिंसन् यथा पद्भपिवति भ्रमरो मधु ॥११॥ चन्द्रस्य अमृतं तद्वद् भेदादाहुरश्नुते । चन्द्रकांतो मर्यिद्वत् तुहिनं क्षरते क्षणात् ॥१२॥
•
शुक्ले च
च
३. राहुन क ग।
१. पंक्ती न सन्ति क पुस्तके। २. कथंनोदरः क ग । ४. गतवान् क ।
५. स्वायंभुव ख । ६. पिवत्यं व मयं देवाः पितरः क । ७. ये क।
८. त्तत्राद्राहु क। । १०. चन्द्र ख।
११. संस्थातु क।
8. मभ्राकारांक।