________________
एकोनपञ्चाशोऽध्यायः
क्षरन्नपि न हीयेत तेजसा नैव मुच्यते । यथा सूर्यमणिश्चापि सूर्य्यादुत्पाद्य पावकम् ॥१३॥ न भवत्यङ्ग होनोऽपि तेजसा नेव मुच्यते । एवं चन्द्रश्च सूर्यश्च छादितावपि राहुणा ॥१४॥ स्वतेजसा न मुच्येते नागहीनौ वभूवतुः ।
पव॑स्वथ च चन्द्रस्य माणिक्य कलसाकृतिः ॥१५॥ सोमो दैवत संयोगाच्छाया योगाच्च पाथिवे । राहोश्च वरलब्धाद्व प्रक्षरेदमृतं शशी ॥१६॥ स्वदोह काले संप्राप्ते वत्सं दृष्ट्वा यथा च ग:। स्वाङ्गादेव क्षरेत् क्षीरं तन्दुः क्षरतेऽमृतम् ॥१७॥ पितेव सूर्यो देवानां सोमो मातेव लक्ष्यते । यथा मातुः स्तनं पीत्वा जीवन्ति सर्वजन्तवः ॥१८॥ पीत्वामृतं तथा सोमात् तृष्यन्ते सर्व देवताः । संभूतं पर्व योगेषु तथायं क्षरते शशी ॥१६॥ तं क्षरन्तं यथाभागमुपजीवन्ति देवताः । तस्मिन् काले समभ्येति राहुरप्यवकर्षति ॥२०॥ सर्वमद्धं त्रिभागं वा पादं पादार्टमेव वा । आक्रम्य पार्थिवीं छायां यावंती चन्द्र मण्डलम् ॥२१॥ स्मृतः स भागो राहोस्तु देव भागास्तु शेषकाः । तृप्ति "विधाय देवानां राहोः पर्वगतस्य च २२॥ चन्द्रो न क्षयमायाति तेजसा नैव मुच्यते । तिथि भागाश्च यावन्तः पुनस्त्वर्क प्रमाणतः ॥२३॥
पर्वच्छायास्थितः कालस्तावानेवं प्रकीर्तितः ।
अधो राहुपुरः सोमः सोमादूर्ध्व दिवाकरः ॥२४॥ पर्वकाले स्थिति स्त्वेवं विपरीतः पुनः पुनः। अतश्छादयते राहुरभवच्छशि भास्करौ ॥२५॥ राहुरभ्रकसंस्थानः सोममाच्छाद्य तिष्ठति । उद्धृत्य पार्थिवी छायां धूममेघ इवोत्थितः ॥२६॥ चन्द्रस्य यदृष्टव्यं राहुणा भास्करस्य वा । नाम्ना च खंडितं तस्य केवलं श्यामली कृतम् ॥२७॥
१. सोमो देवत क ग। ३. मृतापि क। ५. शेषगा क ग । ७. अतो ख ।
२. योगाध पार्थिवात क। ४. पंक्ती न सन्ति क पुस्तके । ६. दृष्टि क ग। ८. सोममाघ क।
६. घ्यामनी क।